SearchBrowseAboutContactDonate
Page Preview
Page 470
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir पराशरमाधवः। रघ०,या का। म्पन्ना देवनात् कितवी चतुष्पथाद्विप्रवाजिनीरिणादधन्या श्मशानात्पतिघ्नी"* इति। विप्रवाजिनी विविध प्रकर्षेण व्रजतीति विप्रवाजिनी स्वैरिणी इत्यर्थः । अनन्यपूर्विकामिति दानेनोपभोगेन वा पुरुषान्तराग्रहीताम् । अनेन पुनर्भूावर्त्यते । अतएव काश्यपः, "मप्त पौनर्भवाः कन्यावर्जनीयाः कुलाधमाः । वाचा दत्ता दनादत्ता कृत-कौतुक-मङ्गला । उदक-स्पर्शिता या च या च पाणिग्टहीतिका । अग्निं परिगता या च पुनर्भू-प्रसवा च या । इत्येताः काश्यपेनोक्तादहन्ति कुलमग्निवत्” इति । बौधायनः,-“वाग्दत्ता मनोदत्ताऽग्निं परिगता सप्तमं पदन्नीता भुक्ता ग्टहीतगी प्रसूता चेति सप्तविधा पुनर्भूः, तां ग्टहीत्वा न प्रजां न धर्म विन्देत्" इति । नारदोऽपि, "कन्यवाक्षतयोनियर्या पाणि-ग्रहण-पूर्विका । पुनर्भू-प्रतिमा ज्ञेया पुन: संस्कार कर्मणि"-इति ।। * 'अान्तराणि' इत्यारभ्य 'इत्यर्थः' इत्यन्तयन्यस्थाने मुद्रित पुस्तके अन्यथा पाठो दृश्यते । स यथा,-"आन्तराणि लक्षणानि आश्वलायनग्यो दर्शितानि दुज्ञेयानि तानि वेदितव्यानि । पूर्वस्यां रात्रौ गोष्ठ-वेदिकाकितवस्थान-देरिण-क्षेत्र-चतुष्पथ-प्रमशानेभ्योम्मत्तिकां ग्रहोत्वा अौ पिण्डान् कृत्वा ऋतमग्रे प्रथमं जज्ञे ऋते सत्यं प्रतिष्ठितं यदियं कुमार्याभि जाता तदियमिह प्रतिपद्यतां यत् सत्यं तदृश्यतामिति पिण्डानभिमन्त्य कुमारों ब्रूयादेषामेकं रहाणेति । तत्रानुक्रमेण प्रथमे पिण्डे ग्रहीते धान्यवती भवति, द्वितीये पशुमती, टतीयेऽग्निहोत्रघरा, चतुर्थे विवेकिनी चतुरा सर्वजनाचनपरा भवति, पञ्चमे रोगिणी, घछे बन्ध्या, सप्तमे व्यभिचारिणी, अयमे बिधवा भवेदिति ।" सम्भाबयामः आश्वलायनमूत्रस्य तात्पर्य्यमेव तत्र संग्रहीतमिति । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy