________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
२०, या०,का.1]
गराशरमाधवः ।
8५७
स्वपेदेकः कुशेष्वेव न रेतः स्कन्दयेत् कचित्" इति । कूर्मपुराणे,
"नादर्शश्चैवमीक्षेत नाचरेद्दन्त-धावनम् ।
गुरूछिएं भेषजार्थं प्रयचीत न कामतः” इति । आपस्तम्बेोऽपि,-"पितुर्येष्ठस्य च भ्रातुरुच्छिष्ट भोकव्यम्" इति । गुरुपुत्रस्याप्युच्छिदं न भोक्रव्यम् । तदाह मनुः,
"उत्सादनञ्च गात्राणां स्नापनाच्छिष्टभोजने । न कुर्याइरु-पुत्रस्य पादयोश्चावनेजनम् ॥ अभ्यञ्जनं खापनञ्च गात्रोत्सादनमेवच ।
गुरुपत्न्यान कार्याणि केशानाञ्च प्रसाधनम्" इति । ब्रह्मचर्य-कालावधिमाह याज्ञवल्क्यः,
"प्रतिवेदं ब्रह्मचर्य द्वादशाब्दानि पञ्च वा।
ग्रहणान्तिकमित्येके केशान्तं चैव षोडशे"-इति । केशान्तं गोदानाख्यं कर्म । तच्च षोडशे वर्षे कार्य्यम् । तदाह मनुः,
"केशान्तः षोडशे वर्षे ब्राह्मणस्य विधीयते ।
राजन्यबन्धोर्टाविंशे वैश्यस्य यधिके ततः" इति । यमः,
"वसेट्टादश वर्षानि चतुर्विंशतिमेव वा ।
षट्त्रिंशतं वा वर्षाणि प्रतिवेदं व्रतञ्चरेत्”- इति । .एतत् त्रिवेद-ग्रहणाभिप्रायम् । अतएव मनुः,
“पत्रिंशदादिकं चयं गुरौ त्रैवेदिकं ब्रतम् ।
58
For Private And Personal