________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
888
परापारमाधवः।
[२०,या का
"तृतीयस्य वर्षस्य भूयिष्ठे गते चूड़ा-करणम्" इति । शौनकाऽपि ,-"टतीये वर्षे चौलं यथाकुलधर्म वा"-इति। तत्र, ऋषिभेदेन चूड़ा-नियममाइ लोकाक्षिः,-"दक्षिणतः कमुजा वसिष्ठानाम्, उभयतोऽत्रिकाम्यपानां, मुण्डाम्हगवः, पञ्च-चूड़ाअङ्गिरमः, मण्डलार्द्ध-शिखिनोऽन्ये, यथाकुलधर्म वा” इति। कमुजा केश-पतिः । अत्र, यथाशाख व्यवस्था । ___ अत्र, यथोनाः चूड़ा-करणान्ताअनुपनीत-विषयाः, अतस्तत्प्रसङ्गादन्येऽपि केचनानुपनीत-धर्माः कथ्यन्ते। तत्र, गौतमः,"प्रागुपनयनात् कामचार-कामवाद-कामभक्षाः"- इति। कामचारच्छागतिः। कामवादोऽश्लीलादि-भाषणम् । कामभक्षः पर्युषिनादिभक्षणम् । विष्णुपुराणेऽपि,
"भक्ष्याभत्वे तथा पेये वाच्यावाच्ये तथाऽनते।
अस्मिन् काले न दोषः स्यात् स यावन्नोपनीयते" - इति । एतच्चाभक्ष्य-भक्षणं महापातक-हेतु-व्यतिरिक्त-विषयम् ।। अतएव स्मृत्यन्तरम्,
"स्यात्काम-चार-भक्ष्योतिर्महतः पातकादृते” इति । यथा भक्ष्याभक्ष्यादि-नियमोनास्ति, एवमाचमनादि कर्त्तव्यान्तरमपि नास्ति । तदाह वसिष्ठः,
"न ह्यस्य । विद्यते कर्म किचिदामौञ्जिबन्धनात् ।
वृत्त्या शूद्र-रामस्तावद्यावद्वेदी न जायते”- इति । * आश्वलायनापि,--इति मु० पस्तके पाठः। + महापातक हेतुद्रव्यव्यतिरिक्तविषयम्,-इति मु० पस्तके पाठः। + नत्वस्य,-इति स० से० प्रा० पुस्तक पाठः।
For Private And Personal