________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
२०या०का०]
पराशरमाधवः।
४३५
त्तियोऽपि कृषि कृत्वा देवान् विप्रांश्व पूजयेत् ॥१३॥ वैश्यः शूद्रस्तथा कुर्यात् कृषि-वाणिज्य-शिल्पकम्। इति
वाणिज्य-शिल्पयोरपि कलौ वर्ण-चतुष्टय-साधारण्यं दर्शयितुं 'वाणिज्य-शिल्पकम्'-दत्युक्तम् । यद्यपि वैश्यस्य कृषिः पूर्वाध्याये विहिता, तथाप्यत्रेतिकर्त्तव्यता-विधानाय पुनरूपन्यासः । तथा कुर्यात्'--इत्यतिदेशेन ब्राह्मणस्य कृषौ विहितेतिकर्त्तव्यता साऽप्यत्र विहिता भवति, इति ।।
यदि शूद्रस्थापि कथ्यादिकमभ्युपगम्येत, तर्हि तेनैव जीवन-मिद्धेः कलौ द्विज-शुश्रूषा परित्याज्येत्याशझ्याह,विकर्म कुर्वते शूद्राः हिजशुश्रूषयोन्झिताः ॥ १४ ॥ भवन्त्यल्पायुषस्ते वै निरयं यान्त्यसंशयम् । इति ।
लाभाधिकोन विशिष्ट-जीवन-हेतुत्वात् कय्यादिकं विकर्मेत्युच्यते । दिजशुश्रूषया तु जीर्ण-वस्त्रादिकमेव लभ्यते इति न लाभाधिक्यम् । अतोऽधिक-लिप्मया कृप्यादिकमेव कुर्वन्तोयदि द्विज-शुश्रूषां परित्यजेयुस्तदा तेषामैहिकमामुभिकञ्च होयते॥
इत्थं वर्ण-चतुष्टय-साधारणं जीवन-हेतुं धर्म प्रतिपाद्य निगमयति,
चतुर्णामपि वाणामेष धर्मः सनातनः॥ १५॥
अतीतेवपि कलियुगेषु विप्रादीनां कृष्यादिकमस्तीति सूचयितुं 'सनातनः' इत्युतम् ।
For Private And Personal