________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पराशरमाधवः ।
[२०या० का०
गम्यते। प्रकरणे प्रत्यवायात् नित्यत्वं, छेदनादि-पाप- निवर्तकत्वात काम्यत्वञ्च । खलयज्ञस्य नित्यत्वं गैरपुराणे दर्शितम्,
"श्रदत्त्वा कर्षकोदेवि, यस्तु धान्यं प्रवेशयेत् । तस्य तृष्णाऽभिभूतस्य देवि, पापं ब्रवीम्यहम् ॥ दिव्यं वर्ष-सहस्रन्तु दुरात्मा कृषिकारकः । मरुदेशे भवेदृक्षः म पुप्प-फल-वर्जितः ॥ तस्यान्ते मानुषोभृत्वा कदाचित्काल-पर्यायात् ।
दरिद्रोव्याधितोमूर्खः कुल-हीनश्च जायते"-इति ।। दातव्यस्य धान्यस्य परिमाणमाह,
राजे दत्वा तु पड्भागं देवानाञ्चैकविंशकम्॥१२॥ विप्राणां विंशकं भागं सर्वपापैः प्रमुच्यते ।
घटसु भागेबकोभागः षड्भागः, एकविंशति-संख्यकेषु भागेष्वन्य तमोभागएकविंशकः। तद्वत् त्रिंशकेषु भागेय्वन्यतमोभागस्त्रिंशः,इति ज्ञेयम् । देववत् पिटभ्योऽपि देयः । तदनं कूर्मपुराणे,___"देवेभ्यश्च पिटभ्यश्च दद्यामागं तु विंशकम् ।
त्रिंशद्भागन्तु विप्राणां कृषि कुर्वत्र दोषभाक!"- दति। विप्रस्य से तिकर्त्तव्यकृषिमुक्त्वा वर्णान्तराणामपि तामाह,
* त्रिपाटागं ब्राह्मणानां कृषि कुर्वन्नदोषभाक्, इति मु. पुस्तके पाठः । + नास्त्ययमशः मु. पुस्तके। + दुष्यति,- इति मु० पुस्तके पाठः ।
For Private And Personal