________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
४३२
[२०, ख०का० ।
कृमिर्भूत्वा स विष्ठायां पितृभिः सह मज्जति
- इति ।
नायं दोषः ।
श्रावश्यक-धर्म-व्यतिरिक्त-विषयत्वात् । योऽयं तिलानां धान्य- समत्वेन विनियमः, यश्च तृणादि-विक्रयः, सेयमेवंविधा विप्रस्य जीवनार्थ वृत्तिः । तथा च नारदः, -
" ब्राह्मणस्य तु विक्रेयं शुष्क- दारु-तृणादिकम् " - इति ॥ इदानीं कृषावानुषङ्गिकस्य पाभनः प्रतीकारं वकुं प्रथमतस्तं पाभानं दर्शयतिब्राह्मणश्चेत् कृषिं कुर्य्यान्महादोषमवाप्नुयात् ॥ इति ॥
कृषी हिंमायावनीयत्वात् सावधानस्यापि कृषीवलस्य दोषोSनुषज्यते दूति । अत्र, हिंसायां पापमिति मनुवचनं पूर्वमेवोदाहृतम् ॥ कस्य दोषस्य महत्त्वं विशदयति -
पराशर माधवः ।
Acharya Shri Kailashsagarsuri Gyanmandir
संवत्सरेण यत्पापं मत्स्यघाती समाप्नुयात् ॥ ८ ॥ श्रयामुखेन काष्ठेन तदेकाहेन लाङ्गली । इति ।
लोह-महितेन लाङ्गल-मुखेन प्राणिनां चित्रवधोभवतीति मस्यवधात् पापाधिक्यमुक्तम् ॥
उक्तरीत्या कर्षकमात्रम्य पाप-प्रसको तद्द्वारयितुं विशिनष्टि -
पाशके मत्स्यघाती च व्याधः शाकुनिकस्तथा ॥ ९ ॥ श्रदाता पंकश्चैव सर्वे ते समभागिनः । इति ।
* मिर्भवति विष्ठायां कर्म्मणा तेम पापछत्, इति मु० पुस्तके पाठः ।
For Private And Personal