________________
Shri Mahavir Jain Aradhana Kendra
२०, व्या० का ० ।]
www.kobatirth.org
पराशर माधवः ।
Acharya Shri Kailashsagarsuri Gyanmandir
४२६
रुधिरं वाहयेत् तेषां यस्तु मोहान्नराधमः ।
भूल - हत्या- समं पापं तस्य स्यात् पाण्डुनन्दन " - इति ॥ बलीवर्द्ध - स्वापनानन्तरं कर्त्तव्यमाह -
जप्यं देवार्चनं होमं स्वाध्यायश्चैवमभ्यसेत् । एक-दि- त्रि- चतुर्व्विप्रान् भोजयेत् स्नातकान् द्विजः ॥ ५ ॥
यथा, वलीवर्द्ध-श्रान्ति-कृत - दोषापनयनाय खापनं, एवं प्रापघात - दोषापनयनाय यथाशक्ति जप्यादीनामन्यतममनुतिष्ठेत् । एक द्वौ चतुविप्रान् स्नातकान् यथाशक्ति भोजयेत् । स्नातका नवविधभिक्षुकाः । तदाच मनुः, -
" सान्तानिकं यक्ष्यमाणमध्वगं सर्ववेदसम् ।
गुर्व्वर्थं पितृमात्रर्थं स्वाध्यायार्थ्यापतापिनम् ” - इति ।
सान्तानिकं सन्तानाय विवाहोपयुक्त द्रव्यार्थिनम् । सर्व्ववेदसः सर्व्वस्व - दक्षिणं यागं कृत्वा निस्वत्वमापन्नेोद्रव्यार्थी, तमित्यर्थः । पितृमात्रर्थं पितृ-मात्र-शुश्रूषाऽर्थिनम् । स्वाध्यायार्थी स्वाध्याय प्रवचन- निहाय द्रव्यार्थी, उपतापी रोगी, खाध्यायार्थि - महितः उपतापी स्वाध्यायार्य्युपतापी, तमिति मध्यम - पद - लोपी समासः । तावुभावित्यर्थः ॥
कृषौ फलितस्य धान्यस्य विनियोगमाह, -
For Private And Personal
स्वयङ्कष्टे तथा क्षेत्रे धान्यैश्च खयमर्जितैः । निर्व्वपेत् पञ्चयज्ञांश्च ऋतु - दीक्षाच्च कारयेत् ॥ ६ ॥ इति ।