SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir २०, या०,का. पराशरमाधवः । “संक्षेप-विस्तराभ्यां हि मन्दोत्तमधियां नृणाम् । वस्तूच्यमानमप्यन्तःकरणं तेन हप्यते"-इति । यदा, अतःपरं श्रामुभिक-प्रधान-धर्म-कथनादनन्तरम् । “षट्माभिरतः" "सन्ध्या स्नानम्" इत्यादिना ह्यामुभिक-फले धर्मेऽभिहिते मत्यैहिक-फलस्य कृयादि-धर्मस्य बुद्धिग्थत्वात् तदभिधानस्य युकोऽवसरः। वक्ष्यमाणस्य कृष्यादि-धर्मस्य ब्रह्मचारि-वनग्य-यतिध्वसम्भवमभिप्रेत्य तद्योग्यमाश्रमिणं दर्शयति,–'रहस्यस्य'-दति। कृत-त्रेता-दापरेषु वैश्यस्यैव कृय्यादावधिकारोन तु ग्टहस्थमात्रस्य विप्रादेरता विशिनष्टि,-'कलो युगे'-दति । कर्मशब्दोलोके व्यापारमात्र प्रयुज्यते, प्राचारशब्दश्च धर्मरूपे शास्त्रीये वापारे। कय्यादेस्तु युगान्तरेषु कर्मत्वं, कलावाचारत्वमित्युभयरूपत्वमस्ति । तथैवाश्रमान्तरेषु कर्मत्वं गाईस्थ्ये त्वाचारत्वमित्युभयरूपता । तद्विवक्षया कर्माचारम्' इत्युक्तम् । कलौ ग्रहस्थस्य याजनादीनां दुर्लभत्वाज्जीवन-हेतुतया कृयादि-विधानादाचारत्वमुपपन्नम्। ___ कय्यादेः साधारण-धर्मवमुपपादयति,-'चातुर्वर्णाश्रमागतम्' -इति । चतुर्वर्णएव चातुवर्ण्यम् । तत्र सर्वत्रैव प्रसिद्धः श्राश्रमोगाईस्थारूपः। मन्ति हि शूद्रस्यापि विवाह-पञ्चमहायज्ञादयो ग्गृहस्थ-धाः। एतत् ममस्माभिः उत्तरत्राश्रम-निरूपणे विस्पटमभिधास्यते । तस्मिन्नाश्रमे विधानात साधारण्यम् । पराशरशब्देनात्रातीतकल्पोत्पत्रोविवक्षितः । एतदेवाभिव्ययितुं 'पूर्वम्' इत्युक्तम् । पूर्वकन्य-सिद्धं पराशर-वाक्यं कलि-धर्म कय्यादौ यथा वृत्तं, तथैवाई For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy