________________
Shri Mahavir Jain Aradhana Kendra
१०, ख०का० ।]
१०,
www.kobatirth.org
पराशर माधवः 1
Acharya Shri Kailashsagarsuri Gyanmandir
"अशक्नुवंस्तु शुश्रूषां शूद्रः कर्त्तुं द्विजन्मनाम् । पुचदारात्ययं प्राप्तोजीवेत्कारुक - कर्मभिः ॥ यैः कर्मभिः सुचरितैः शुश्रूयन्ते द्विजातयः । तानि कारुककर्माणि शिल्पानि विविधानि च " - ति ॥ शूद्रस्यापि वचनाच —
१२३
विक्रीणन् मद्य-मांसानि भक्षस्य च भक्षणम् । कुर्वन्नगम्यागमनं शूद्रः पतति तत्क्षणात् ॥ ६६ ॥ कपीला क्षीर- पानेन ब्राह्मणी- गमनेन च । वेदाक्षर-विचारेण शूद्रः पतति तत्क्षणात् * ॥६७॥ मद्यं च बहुविधं ; ताल-पानस - द्राक्ष- माधूक- खार्जूरादिकम् । श्रभच्यं गो-मांसादि । श्रगम्या भगिन्यादयः । । स्पष्टमन्यत् ।
॥ ० ॥ इति शूद्र-ध-प्रकरणम् ॥ ० ॥ प्रख्याता हि पराशर - स्मृतिरिक्ष स्मृत्यागमख्यापनं धर्मावर्ण चतुष्टयी बहुमता साधारणाख्याभिधा । श्रद्यस्त्वाहिक शिष्ट- नाम-विहितः षट्कर्म-पूतोऽपरः पूर्वाध्याय - निरूपितं तदखिलं व्याख्यत् सुधामाधवः ॥ इति श्रीराजाधिराज - परमेश्वर वैदिकमार्गप्रवर्त्तक- श्रीवीर-बुक्कभृपाल-साम्राज्य-धरन्धरस्य माधवामात्यस्य कृतौ पराशर - स्मृतिव्याख्यायां प्रथमोऽध्यायः ॥ ० ॥
* शूद्रस्वाण्डालतामियात्, – इति स० शा ० पुस्तकयोः पाठः । † ब्राह्मण्यादयः, इति मु० पुस्तके पाठः ।
For Private And Personal