________________
Shri Mahavir Jain Aradhana Kendra
१८०या० का ० 11
www.kobatirth.org
पराशर माधवः ।
Acharya Shri Kailashsagarsuri Gyanmandir
" विप्र - सेवैव शूद्रस्य विशिष्टं कर्म कथ्यते । यदतोऽन्यद्धि कुरुते तद्भवेत्तस्य निष्फलम्” इति ।
तस्मात् द्विज-शुश्रूषैव तस्य परमोधर्मः, क्षत्रिय - वैश्य-शुश्रूषा तु केवल-वृत्त्यर्थत्वादपरमोधर्मः । अतएव मनुना, विप्र-पूश्रूषाया उभ यार्थत्वमितर- शुश्रूषायाः केवल-वृत्त्यर्धवञ्च दर्शितम्, - "शूद्रस्तु वृत्तिमाकाङ्क्षन् क्षत्रमाराधयेद्यदि । धनिनं वाऽप्युपाराध्य वैrयं शूद्रो जिजीविषेत् ॥ स्वर्गार्थमुभयार्थं वै विप्रानराधयेत् तु सः * ।
४२१
जात - ब्राह्मण-शब्दः स्यात् सा ह्यस्य कृतकृत्यता !" - इति ॥ यदा दिज-शुश्रूषया जीवितुं न शक्नोति तदा किं कुयीदित्यतश्राह -
लवणं मधु तैलञ्च दधि तकं घृतं पयः । न दुष्येच्छूद्रजातीनां कुर्य्यात्सर्व्वेषु विक्रयम् ॥६५॥ शुश्रूषया जीवितुमशकेोजीवनाथ लवणादिषु सर्व्वेषु विक्रयं कुर्य्यात् । ननु, लवणादीनि विक्रयमाणानि विक्रेतुर्देषमावहन्ति । तदाह याज्ञवल्क्यः, -
"फलोपलक्षौम सेोमनुष्यापूपवीरुधः । तिलोदनरमतारान् दधि चीरं घृतं जलम् ॥
For Private And Personal
* ब्राह्मणानेव राधयेत्, - इति शा० स० पुस्तकयेाः पाठः |
+ जातब्राह्मणशब्दस्य नास्य कृतकृत्यता, इति मु० पुस्तके पाठः । | यदि शुश्रूषया जीवितुं न शक्नोति, जीवनाय लवणादिविक्रयं कुर्य्यात्, - इति मु० पुस्तके पाठः ।