________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पराशरमाधवः।
का.का.।
स्थानं समुदयं गुप्तिं लब्ध-प्रशमनानि च ॥ तेषां खं स्वमभिप्रायमुपलभ्य पृथक् पृथक् । समस्तानाञ्च कार्येषु विदध्याद्धितमात्मनः । सर्वेषान्तु विशिष्टेन ब्राह्मणेन विपश्चिता । मन्त्रयेत परमं मन्त्रं राजा सामान्य-संयुतम् ॥ नित्यं तस्मिन् समाश्वस्तः सर्वकार्याणि निःक्षिपेत् ।
तेन साई विनिश्चित्य ततः कर्म समारभेत्" इति । पारभणीयञ्च कर्म, देश-विशेषे दुर्ग-सम्पादनम् । तच्च याज्ञवल्क्येन दर्शितम्,
"रम्यं यशस्यमाजीव्यं जाङ्गलं देशमावसेत् ।
तत्र दुर्गानि कुर्बोत जनकोशात्मगुप्तये"-इति ॥ दुर्गभेदामनुना दर्शिताः,
"धन्वर्ग महीदुर्गमदुर्ग वार्तमेव वा । नृदुर्ग गिरिदुर्गञ्च समात्य वसेत् पुरम् ॥
सर्वेण तु प्रयत्नेन गिरिदुर्ग समाश्रयेत्” इति । दुर्ग-संविधान-प्रकारः शान्तिपर्वणि दर्शितः,
* घाडगुण्यसंयुतम्, इति पाठान्तरम्। + प्रशम्यमाजीव्यम्, इति मु° पुस्तके पाठः ।
(१) तिष्ठत्यनेनेति स्थानं दण्डकोषपुरराष्ट्रात्मकं चतुर्विधम्। समुदय
न्त्युत्पद्यंते अर्था अस्मादिति समुदयोधान्यहिरण्याद्युत्पत्तिस्थानम्। यात्मगता राष्ट्रगता च रक्षा गुप्तिः । लब्धस्य प्रशमनं सत्यात्रे प्रतिपादनादिकम्।
For Private And Personal