SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १५०,या का पराशरमाधवः। ४०३ युक्त च देवे(९) युद्धोत जयप्रेमुरपेतभीः । साना दानेन भेदेन समस्तैरथवा पृथक् ॥ विजेतुं प्रयतेतारीन् न युद्धेन कदाचन । अनित्योविजयो यस्मात् दृश्यते युध्यमानयाः ॥ पराजयश्च संग्रामे तस्माद्युद्धं विवर्जयेत् । चयाणामप्युपायानां पूर्वोकानामसम्भवे । तथा युद्ध्येत संयत्तो विजयेत रिपुं यथा ॥ जित्वा संपूजयेद्देवान् ब्राह्मणश्चैव धार्मिकान् । प्रदद्यात् परिहारांश्च ख्यापयेदभयानि च ॥ सर्वेषान्तु विदित्वेषां समासेन चिकीर्षितम् । स्थापयेत् तत्र तदंश्यं कुर्य्याच समयक्रियाम् ॥ प्रमाणानि च कुति तेषां धर्मान् यथोदितान"-दति । उक-प्रकारेण परसैन्यानि निर्जित्य, जितामेतां पूर्वाञ्च खकीयां भुवं राज-धर्मेण पालयेत्। तदेव धर्मेण पालनं, 'पुष्पमात्र'-इति हतीय-लोकेन विशदीक्रियते । यथा, मालाकार पारामे यदा यदा यत् यत्पुष्यं विकसति तदा तदा तद्विचिनोति न तु पुष्पलतामुन्मूलयति, तथा प्रजाभ्यः करमाददाना राजा ययोदयं षष्ठं भाग * युद्धोत सममम्पच्या,-इति मु• पुस्तके पाठः । +परिहारार्थ,-इति मु. पस्तके पाठः । + राजा धर्मेण,-इति पाठी भवितुं युक्तः। (१) पूर्वकालीनपुरषदेहनिष्पन्नं सुकृतं दुष्कृतञ्च फलोन्मुखीभूतं सत् सुदैवं दुर्दैवञ्चेत्युच्यते । तदुक्तम् । “तत्र देवमभिव्यक्तं पौरुषं पौर्व. देहिकम्" इति । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy