SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ४०२ परापूरमाधवः। [११०,या,का। यतश्व भयमाशङ्कत्ततो विस्तारयेदलम् । पोन चैव व्यूहेन निविशेत तथा खयम् ।। सेनापतीन् वलाध्यक्षान् सर्वदिक्षु निवेशयेत् । यतश्च भयमाशङ्केत्तां प्राची कल्पयेद्दिशम् ।। गुल्मांश्च स्थापयेदाप्तान् कृतसंज्ञान समन्ततः । स्थाने युद्धे च कुशलानभीरूनविकारिण: ॥ मंहतान् योधयेदल्यान* कामं विस्तारयेदहन। सूच्या वज्रेन चैवैतान् व्यूहेन व्यूह्य योधयेत् ॥ स्यन्दनाश्वैः समे युद्ध्येदनूपे नौ-दिपैस्तथा । वृक्षगुल्माहते चापैरसिचायुधैः स्थले ॥ कुरुक्षेत्रांश्च मस्यांश्च पाञ्चालाञ्छरसेनजान् । दीर्घान् लघूश्चैव नरानग्रानीकेषु योजयेत् ॥ प्रहर्षयेद्दलं व्यूह्य तांश्च सम्यक् परीक्षयेत्। चेष्टाश्चैव विजानीयादरीन् योधयतामपि ॥ उपरुद्ध्यारिमामीत राष्ट्रञ्चास्योपपीड़येत् । दूषयेच्चास्य सततं यवमान्नोदकेन्धनम् ॥ भिन्द्याच्चैव तटाकानि प्रकार-परिखास्तथा । समवस्कन्दयेचैनं रात्रौ वित्रासयेदपि ॥ उपजाप्यानुपजपेडुध्यैच्चैव हि तत्कतम्। * संहतान् विभजेदश्वान्,-इति मु० पुस्तके पाठः । + योधयेत्, इति पाठान्तरम्। For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy