________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
३६४
परापारमाधवः।
[११०,आका।
तत्र संशयः; किं ब्राह्मणादीनामवेष्टौ प्राप्तानां वर्णनां राजसूये अधिकारः, उत क्षत्रियस्यैव ? इति । तदर्थं च, किं राजशब्दः त्रयाणामपि वर्णनां वाचकः, किं वा क्षत्रियस्यैव ? इति। ततोऽपि पुनर्विचारयितव्यम् ; किं राजशब्दो राज्य-योग-निमित्तः, क्षत्रियत्वनिमित्तो वा ? इति। तत्र, राजशब्दो राज्य-योग-निमित्तएव, पार्यप्रसिद्धः सर्वलोक-प्रसिद्धृत्वादविगानाच्च । न तु क्षत्रियत्व-निमित्तः, अनार्य-प्रसिद्धेरार्य-प्रमिय पेक्षया दुर्वलत्वात् । द्रविड़ेषु विगानात् । तदन्येष्वप्रसिद्धेश्च । तत्र स्थात् राज्य-योगात् राजानस्त्रयोऽपि भवन्ति । राज्यपदन्तु, रूल्या जनपद- रक्षणे वर्तते ; न राज-योगमपेक्षते।
ननु, 'कर्मणि'-इत्यधिकृत्य, “पत्यंशपुरोहितादिभ्योयक्”इति वचनात् राजशब्दस्य तत्र पठादाचाराच स्मृतेर्वलीयस्वात् राज-योगएव राज्यपद-प्रति-निमित्तमिति चेत् । लोक-प्रयोगस्यैव शब्दार्थावधारणे प्रमाणत्वात् स्मृतेरपि मएव मूलं नान्यत्। प्रयोगाच्च राज्यशब्दस्यैव स्वातन्य तनिमित्तत्वं च राजशब्दस्यावगम्यते। ततस्तदनुमारेण, स्मरणं शब्दापशब्द-विभाग-मात्र-परं व्याख्येयम् । अतस्त्रयाणामपि राजपदाभिधेयत्वेन राजसूये प्राप्तानां निमित्तार्यानि श्रवणनि । 'यदि' शब्दोऽपि, राजशब्दस्य राज्ययोग-निमित्तत्वे प्रमाणम्। अन्यथा, प्रायभावात् 'यदि' शब्दोऽनुपपन्नः स्यात्। वैदिकश्च निर्देश: स्मृतेरपि वलीयान्। तस्मात्, निमित्तार्थानि श्रवणानि, इति प्राप्ते ब्रूमः।
न तावद्वैदिक-निर्देशादत्र निर्णयः शक्यने, अन्यथाऽपि तत्* अत्र, तस्मात्,-इति पाठी भवितुं युक्तः ।
For Private And Personal