SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १५०,या का०] पराशरमाधवः। मनरपि, "पिताऽऽचार्यः सुहृन्माता भार्या पुत्रः पुरोहितः । नादण्ड्योनाम राज्ञोऽस्ति यस्त्वधर्मेण तिष्ठति"-इति । याज्ञवल्क्योऽपि, "अपि भ्राता सुतोभार्या श्वशारोमातुलेोऽपि वा । नादण्डको नाम राज्ञोऽस्ति धर्मादिचलितः स्वकात्" इति । दण्डा-दण्डनं प्रशंसति याज्ञवल्क्यः, “यो दण्ड्यान् दण्डयेद्राजा सम्यग्बध्यांश्च घातयेत् । दृष्टं स्यात् क्रतुभिस्तेन समाप्न-वर-दक्षिणैः" इति । अदण्डा-दण्डनं निषेधयति मनुः, "श्रदण्डमान् दण्डयन् राजा दण्ड्यांश्चैवाप्यदण्डयन् । अयशोमहदाप्नोति नरकञ्चैव गच्छति" इति । दण्डश्च विविधः, शारीरोऽर्थ-दण्डश्च *। यथाऽऽह नारदः, "शारीरश्चार्थ-दण्डश्च । दण्डश्च विविधः स्मृतः । शारीरस्ताडनादिस्तु मरणान्तः प्रकीर्तितः ।। काकिन्यादिस्त्वर्थ-दण्डः । सर्वस्वान्तस्तथैवच"-दति । राजोदण्डयितत्त्वं महता प्रबन्धेन सम्भावयति मनुः, "अराजके हि लोकेऽस्मिन् मताविद्रुते भयात् । रक्षार्थमस्य मर्वस्य राजानमसृजत्प्रभुः॥ * शारीर आर्थिकश्चेपि,-इति मु• पुस्तके पाठः । + शारीर आर्थिकञ्चेति,-इति मु० पुस्तके पाठः । + कणादिस्वर्थदण्डस्तु,-इति मु० पुस्तके पाठः । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy