________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
रखा,आ.का.
पराशरमाधवः ।
इति भोजन-प्रतिषेधात्। कचित्त ग्रहण-विशेषे स्नानादिकं न कर्त्तव्यम् । तदुक पत्रिंशन्मते,
"सूर्य-ग्रहो यदा राचौ दिवा चन्द्र-ग्रहस्तथा ।
तत्र स्वानं न कुर्वीत दद्यादानं न च कचित्" इति। एतच भु-भाग-विशेष-व्यवस्थितानां ग्राम-मोक्ष-दर्शन-योग्यवाभावे द्रष्टव्यम् ।
॥०॥ इति भोजन-प्रकरणम्॥०॥ इत्थं निरूपितेन भोजनान्तेन कर्त्तव्यजातेनाहः पञ्चम-भागमतिवारयेत् । एतेन भाग-पञ्चक-कृत्याभिधानेनावशिष्ट-दिवसकर्तव्यजातमुपलक्षणीयम् । तच कर्त्तव्यजातं दक्षेण दर्शितम्,
"भुक्त्वा तु सुखमास्थाय तदनं परिणामयेत् * । इतिहास-पुराणाद्यैः षष्ठ-सप्तमको नयेत् । अष्टमे लोक-यात्रा तु वहिःसन्ध्यान्ततः पुनः" इति ।
"दिवा खापं न कुर्वीत स्त्रियश्चैव परित्यजेत् । श्रायु:क्षीणा दिवा निद्रा दिवा स्त्री पुण्य-नाशिनी। इतिहास-पुराणानि धर्म-शास्त्राणि चाभ्यसेत् ॥
वृथा विवाद-वाक्यानि परिवादश्च वर्जयेत्” इति । विष्णुपुराणेऽपि,
"अनायास-प्रदायोनि कुर्यात् काण्यतन्द्रितः ।
* परिणामयन्, इति मु. पुस्तके पाठः ।
For Private And Personal