________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पराशरमाधवः।
या०का.।
ग्रहे ग्रहण-काले, स्पर्शमारभ्य मोक्षण-पर्यन्तो ग्रह-कालः । तस्मिन् काले न भुञ्जीत, किन्तु राहणा चन्द्र-सूर्ययोः मुकयोः सततः पश्चात् स्नात्वा मुञ्जीत। यदा तु ग्रस्तास्तमयस्तदा परेद्युः विमुक्तौ तौ दृष्टा भुञ्जीत । न केवलं ग्रहण-काले भोजनाभावः, किन्तु ग्रहणात् प्रागपि । तदाह व्यासः,
"नाद्यात् सूर्य-ग्रहात् पर्वमलि मायं शशि-ग्रहात् । ग्रह-काले च नाश्रीयात् स्नात्वाऽनीयाच मुक्कयोः । मुक्ने शशिनि भुञ्जीत यदि न स्यान्महानिशा ।
अमुक्तयोरस्तगयोरथ दृष्टा परेऽहनि”-दति । पूर्व-काले भोजन-निषेधे विशेषमाह वृद्धवशिष्ठः,
"ग्रहणन्तु भवेदिन्दोः प्रथमादधि यामतः । भुञ्जीतावर्त्तनात् पूर्व पश्चिमे प्रहरादधः ॥ रवेस्त्वावर्ननादूर्द्धमागेव निशीथतः ।
चतुर्थे प्रहरे चेत् स्यात् चतुर्थ-प्रहरादधः" इति । रात्रो प्रथमात् यामादधि अर्द्र ग्रहणं चेत्, आवर्तनान्मध्याहात् पूर्व भुञ्जीत ; रात्रि-पश्चिम-यामे चेत्, रात्रि-प्रथम-यामादाक् भुञ्जीत ; अश्चतुर्थ-प्रहरे रवि-ग्रहश्चेत्, रात्रः चतुर्थ-प्रहरादधी भुञ्जीतेत्यर्थः । निशीथो मध्यरात्रिः । मध्याहादूर्द्व रवि-ग्रहणं चेत, मध्य-रात्रादागेव भुञ्जीतेत्यर्थः । शशि-ग्रहणे याम-त्रयेण व्यवधानमपेतितं, सूर्य-ग्रहे तु याम-चतुष्टयेनेति तात्पर्य्यार्थः। तथाच वृद्ध गौतमः,
"सूर्य-ग्रहे तु नाश्नीयात् पूर्व याम-चतुरायम् ।
For Private And Personal