________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पराशरमाधवः।
[१०,या का।
स भ्रूणहा सुरापश्च स्तेयी च* गुरुतल्पग:"-इति । श्राश्वमेधिके,
"उदक्यामपि चण्डालं श्वानं कुक्कुटमेवच ।। भुञ्जानो यदि पग्येनु तदन्नन्तु परित्यजेत् ॥ केश-कीटावपन्नञ्च मुख-मारुत-वीजितम् ।
अन्नं तद्रातमं विद्यात्तस्मात्तत् परिवर्जयेत्”-दति । कात्यायन:,
"चण्डालपतितदिक्या-वाक्यं श्रुत्वा द्विजोत्तमः।
मुञ्जीत ग्रासमात्रन्तु दिनमेकमभोजनम्" इति । गौतमोऽपि,
"काहलाभ्रामणग्रावणश्चक्रस्योलूखलस्य च ।
एतेषां निनदं यावत्नावत्कालमभोजनम्" इति । बहस्पतिरपि,
"प्येकपङ्क्तया नाश्रीयाद्राह्मणैः स्वजनैरपि । कोहि जानाति किं कस्य प्रच्छन्नं पातकं भवेत् ॥ एकपङ्क्त्युपविष्टानां दुष्कृतं यदुरात्मनाम्।
सर्वेषां तत्समं तावद्यावत् पटिर्न भिद्यते" इति । पति-भेद-प्रकारमपि मएवाह,
"अमिना भस्मना चैव स्तम्भेन सलिलेन च । द्वारेण-चैव मार्गेण पतिभेदो बुधैः स्मृतः" इति ।
* सस्तेनो,-इति स. शा. पुस्तकयाः पाठः । | केश कोटेापपन्नञ्च, इति मु० पुस्तके पाठः ।
For Private And Personal