________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१०,०का
पराशरमाधवः।
३७५
वाग्यमनं प्रक्रम्य पुराणे,
"नास्यता वरुणः शति जुहतोऽगिः श्रियं हरेत् ।
भुनतो मृत्युरायुष्यं तस्मान्मौनं त्रिषु स्मृतम्" इति । यत्त्वत्रिणकम्,
"मौनव्रतं महाक; इंकारेणापि नश्यति ।
तथा मति महान् दोषः तस्मात्तु नियतश्चरेत्"-दति । तदेतत् काष्ठ-मौनाभिप्रायेण । एतच्च पञ्चाग्रासादाविषयम् । तथा च वृद्धमनुः,
"अनिन्दन भक्षयेनित्यं वाग्य तेाऽन्नमकुत्मयन् ।
पञ्च ग्रासान्महामौनं प्राणाद्याप्यायनं महत्" इति । श्राश्वमेधिकेऽपि,
"मौनी वाऽप्यथवाऽमौनी प्रहृष्टः संयतेन्द्रियः ।
भुञ्जीत विधिवधिो न चाच्छिष्टानि चर्चयेत्' इति । भातातपोऽपि,
"हस्त-दत्तानि चान्नानि प्रत्यक्ष-लवणन्तथा ।
मृत्तिका-भक्षणञ्चैव गोमांसाशनवत् स्मृतम्" इति । पैठीनमिः,
"लवणं व्यञ्जनं चैव घतं तेल तथैव च । लेह्यं पेयञ्च विविधं हस्त-दत्तं न भक्षयेत् ।। दया देयं घृतानन्तु समस्त-व्यञ्चनानि च ।
उदकं यच्च पक्वान्नं योदा दातुमिच्छति । * नोच्छिशानि न चालयेत्,-इति मु° पुस्तके पाठः ।
For Private And Personal