________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१५०,०का.
परापरमाधवः।
३१
"सायं प्रातर्विजातीनामशनं श्रुति-चोदितम् ।
नान्तरा भोजनं कुर्यादग्निहोत्र-ममो विधिः" इति । गौतमः,-"सायं प्रातस्त्वन्नमभिपूजितमनिन्दन् भुनीत" इति । उदाहृत-वचन-समूहेन प्रसिद्धं माङ्ग-भोजनं मूलवचने,“यो भुते"इत्यनूद्य वेष्टिन-शिरस्वादिकं प्रत्यवायाभिधानेन निषेधयति । एतच्च वान्तराणामप्युपलक्षणम् । तानि च ब्रह्मपुराणो दर्शितानि,
“यस्तु पाणि-तले भुले यस्तु फुकार-संयुतम् । प्रसृताङ्गुलिभिर्यचौ तस्य गोमांसवच्च तत् । नाजोले भोजनं कुर्यात् कदन्नानि वुभुतितः ॥ हस्त्यश्वरथयानाष्ट्रमास्थितो नैव भक्षयेत् । श्मशानाभ्यन्तरस्थो वा देवालय-गतोऽथवा || शयनम्यो न भुञ्जीत न पाणिस्थं न चामने । नावासा नाशिरा नचायज्ञोपवीतवान् ॥ न प्रसारित-पादस्तु पादारोपित-पाणिमान् । ख-बाहु-सव्य-संस्थश्च न च पर्यङ्कमास्थितः ॥ न वेष्टित-शिराश्चापि नोत्सङ्ग-कृत-भाजनः । नैकवस्त्रोदृषन्मध्ये नोपानत्-कृत-पादकः।। न चीपरिसंस्थश्च चर्म-वेष्टित-पार्श्ववान् ।
* फत्कारवायुना,-इति मु० पुस्तके पाठः । + यच्च, - इति पा स० पुस्तकयोः पाठः । + कु-नातिबुभुक्षितः,-इति मु० पुस्तके पाठः । 8 नोत्सङ्गकृतभोजनः,-इति मु° पुस्तके पाठः । पानापानकः सपादुका,-इति मु० पुस्तके पाठः ।
For Private And Personal