SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir पराशरमाधवः। [११०,आ का। "पलाश-यम-पत्रेषु* ग्टही भुक्कैन्दवं चरेत्। ब्रह्मचारि-यतीनाञ्च चान्द्रायण-फलं भवेत्” इति व्यास-स्मरणात् । कांस्य-पात्रन्तु ग्रहम्कविषयो, यत्यादीनान्तु निषेधात् । तदाह प्रचेताः, "ताम्बूलाभ्यञ्जनं चैव कांस्यपात्रे च भोजनम् । यतिश्च ब्रह्मचारी च विधवा च विवर्जयेत्” इति। तच पात्र भूमौ स्थापनीयम् । यदुक्तं कूर्मपुराणे, “पञ्चाद्री भोजनं कुर्याद्भमौ पात्र निधाय तु । उपवासेन तत्तुल्यं मनुराह प्रजापतिः” इति । तच स्थापनं प्राणाहुति-पर्यन्तं, पश्चानु यन्त्रिकामारोप्य भोकव्यम् । तदाह व्यासः, "न्यस्य पात्रं तु भुञ्जीत? पञ्च ग्रासान् महामुने । शेषमुद्धृत्य भोक्तव्यं श्रूयतामच कारणम् ॥ विपुषां पाद-संस्पर्श: पाद-चैल-रजस्तथा । सुखेन भुत विप्रो हि पिचर्यन्तु न लुप्यते" ॥ पैटक-भोजने भूमि-पात्र-प्रतिष्ठापनं न लोपनीयमित्यर्थः । उकपात्र-निहितमन्नं नमस्कुर्यात्। तदुनं ब्रह्मपुराणे, "अन्नं दृष्ट्वा प्रणम्यादौ प्राञ्जलिः कथयेत्ततः । * पलाशपद्मपत्रेषु,-इति मु० पुस्तके पाठः। + एहस्थविधयं.-इति मु. पुस्तके पाठः । + छत्र, यत्यादीनां तनिषेधात्,-इति पाठः समीचीनः प्रतिभाति । 5 न्यस्तपात्रं न भुञ्जीत,-इति शा० पुस्तके पाठः। For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy