________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
२६४
पराशरमाधवः।
[ १०,या का।
भोजन-विधिश्च मनुना दर्शितः,
"भुक्तवत्सु व विप्रेषु खेषु मृत्युषु चैव हि ।
भुजीयातां ततः पश्चादवशिष्टन्तु दम्पती" इति। विष्णुपुराणे,
"ततः सुवासिनी-दुःखि-गर्भिणी-वृद्ध-वालकान् । भोजयेत् संस्कृतान्नेन प्रथमन्तु परं ग्टही ॥ अभुक्तवत्सु चैतेषु भुञ्जन भुते सुदुष्कृतम् ।
मृतश्च गत्वा नरकं मभुगजायते नृप" इति। मार्कण्डेयपुराणे,
"पूजयित्वाऽतिथीनिखान्* ज्ञातीन् बन्धूंस्तथाऽर्थिनः । विकलान् वाल-वृद्धांश्च भोजयेदातुरांस्ततः ।
वाञ्छेत् क्षत्तृटपरीतात्मा यच्चान्नं रस-संयुतम्" इति। भोजनेतिकर्तव्यतामाह बौधायनः,
"उपलिने समे स्थाने शुचौ स्वना-समन्विते । चतुरखं त्रिकोणं वा वर्नुलं वाऽर्द्धचन्द्रकम् ॥
कर्तव्यमानुपूफ्ण ब्राह्मणादिषु मण्डलम्" इति । शङ्खोऽपि,
"आदित्यावसवोरुद्रा ब्रह्मा चैव पितामहः ।
* पूजयित्वातिथीन् विप्रान्,-इति मु. पुस्तके पाठः । + क्षणामलान्विते,-इति स० शा० पुस्तकयोः पाठः । तत्र, न मला
वितं धमलान्वितं, लक्षणच तदमलान्वितश्चेति तत्तथा, तस्मिन्नित्वर्थोवाध्यः ।
For Private And Personal