________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
९ख०,चाका
पराशरमाधवः।
३६३
पापो गोवधाद्युपपातको । एतेषां भोजनीयत्वमेव, नतु अशेषातिथ्य-मत्काराईत्वम् । तदेतदेवाभिप्रेत्याश्वमेधिके वर्णितम्,
"चण्डालोवा श्वपाकोवा काले यः कश्चिदागतः ।
अनेन पजनीयश्च परत्र हितमिच्छता"-इति । विष्णुधर्मोत्तरे,
"चण्डालोवाऽथ वा पापः शत्रुवा पिघातकः ।
देशकालाभ्युपगतो भरणीयोमतोमम"-इति । उनान् पञ्च महायज्ञान् प्रशंमति हारीतः,
"देवानृषीन् पिहूंश्चैव भूतानि ब्राह्मणांस्तथा ।
तर्पयन् विधिना विप्रो ब्रह्मभूयाय कल्पते"-इति। पुराणेऽपि,
“यत्फलं सोमयागेन प्राप्नोति धनवान् दिजः ।
सम्यक् पञ्चमहायजै दरिद्रस्तदवाप्नुयात्" इति । प्रकरणे प्रत्यवायमाह व्यासः,
“पञ्चयज्ञांस्तु योमोहान्न करोति ग्रहाश्रमी।
तस्य नायं न च परोलोको भवति धर्मतः” इति ॥ पञ्चयज्ञानन्तरं भोजनमभिप्रेत्य तदनुवादेन तत्र वर्जनीयामाइ,
योवेष्टितशिराभुते यामुळे दक्षिणामुखः। वाम-पाद-करः स्थित्वा तदै रक्षांसि भुञ्जते ॥५६॥
* पापावा यदि चण्डाला,-इति मु° पुस्तके पाठः ।
For Private And Personal