________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१६२
पराशरमाधवः।
[१०,घा०का।
“यतिश्च ब्रह्मचारी च विद्यार्थी गुरू-पोषकः ।
अध्वगः क्षीण-वृत्तिश्च षड़ेते भिक्षकाः स्मृताः" इति। पुराणेऽपि,
"व्याधितस्यार्थ-हीनस्य कुटुम्बात् प्रच्युतस्य च ।
अध्वानं प्रतिपन्नस्य भिक्षाचा विधीयते” इति । वैश्वदेवकृतमित्युत्वा* बुद्धिस्थत्वाद्वैश्वदेवस्याकरणे प्रत्यवायमाह,
अकृत्वा वैश्वदेवन्तु भुजते ये दिजाधमाः। सर्वे ते निष्फलाञयाः पतन्ति नरकेऽशुचौ ॥५६॥
निष्फला-यथोक-फल रहिताः। न केवलमिट-प्राण्यभावः किन्त्वनिष्ट-प्राप्तिरपि दर्शिता;-'पतन्ति नरकेऽशुचौ'-इति ॥ वैश्वदेव-दृष्टान्तेनातिथ्याकरणेऽपि प्रत्यवायमाह,
वैश्वदेव-विहीनाये आतिथ्येन वहिष्कृताः। सर्वे ते नरकं यान्ति काकयानि व्रजन्ति च ॥५॥
नरको रौरवादिः, तमनुभृय पश्चात् काकयोनि बजन्ति । अतिथित्वेन स्तुवनन्यानपि भोजनीयानाहा,पापा वा यदि चण्डाला विप्रघ्नः पितृघातकः । वैश्वदेवे तु संप्राप्तः सेोऽतिथिः स्वर्ग-संक्रमः ॥१८॥
वैश्वदेवं कर्त्तव्यमित्युक्त्वा,-इति मु० पुस्तके पाठः । + अतिथित्वेन प्राप्तस्य पापिष्ठस्यापि भोजनीयतामाह,-- इति मु० पस्तके पाठः।
For Private And Personal