SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ११०,थाका• पराशरमाधवः। इ५ ब्राह्मणं प्रारतिथि म पूज्यः* शकितावुधैः” इति । मनुरपि, "नैकग्रामीणमतिथिं विप्रं साङ्गतिकं तथा । उपस्थितं ग्टहे विद्याद्भाऱ्या यत्रामयोऽपिवा"-इति । एकग्रामवासी अतिथि-धर्मेणगतोऽप्यतिथिर्न भवति । तथा, माङ्गतिकः सङ्गतेन चरः; सङ्गतपूर्चादृष्टपूर्वः, इति यावत् । नापि, यत्र क्कचन देश अतिथि-धर्मेणागतोऽतिथिः। किन्त, यस्मिन् स्वकीये परकीये वा देशे भार्याऽमयो भवन्ति, तत्रैवोपस्थितोऽतिथिर्भवति ॥ अतिथेः स्वरूपं निरूप्य तस्मिन्नागते मति यत्कर्त्तव्यं तदाह, अतिथिं तत्र सम्प्रामं पूजयेत् स्वागतादिना । अासन-प्रदानेन पाद-प्रक्षालनेन च ॥४३॥ श्रद्धया चान्नदानेन प्रियप्रश्नोत्तरेण च । गच्छंतश्चानुयानेन। प्रीतिमुत्पादयेत् गृही॥४४॥ निगद-व्याख्यातमेतच्छ्रोकदयम् । तदेतत् ब्राह्मण-विषयम् , “यहाह्मणेभ्योऽन्नं ददाति"-दति, "अइरहः ब्राह्मणेभ्योऽन्नं ददाति" -इति श्रुति-स्मृतिभ्यामुदाहतत्वात् ।। क्षत्रियादयस्तु न ब्राह्मण-रहे अतिथि-मत्कारमहंति, किन्तु भोजनमात्रम्। तथा च मनः, * संपूज्यः, इति शा० पुस्तके पाठः । + गच्छतश्चानयानेन,-इति शा० स० पुस्तकयोः पाठः। + श्रुतिस्मृत्योरुदाहतत्वात् , इति शा० पुस्तके पाठः । 45 For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy