________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
३५२
पराशरमाधवः ।
[१व्याच्या का
नैकग्रामीणमतिथिं न गृहीत कदाचन ।
अनित्यमागता यस्मात्तस्मादतिथिरुच्यते ॥४२॥ न विद्यते तिथिर्यस्थासावतिथिः। तथा च यमः,
"तिथिपर्वात्मवाः सर्वं त्यका येन महात्मना ।
मोऽतिथिः सर्वभूतानां शेषानभ्यागतान् विदुः" इति । मन्वादि-युगादि-प्रभृतिषु तिथि-विशेषेषु द्रव्य-लाभमुद्दिश्य येऽभ्यागच्छन्ति, तेऽभ्यागताः। तादृशं तिथि-विशेषमनपेक्ष्य यदा कदाचित् क्षुत्तष्णादि-पीड़या वा समागतोऽतिथिः । एवञ्च सत्येकयामीण: प्रतिनियतेषु तिथिविशेषेषु समागच्छतीति नामावतिथिः । यस्तु ग्रामान्तरादकम्मादसङ्केतितो वुभुक्षुः मन्त्रागच्छति, सोऽनित्यमागतः, मएवातिथित्वेन संग्टह्यते, नेतरः । तथा च विष्णुपुराणम्,
"अज्ञात-कुल-नामानमन्यतः समुपागतम् । पूजयेदतिथिं सम्यक् नैक-ग्राम-निवासिनम् ।।
अकिञ्चनमसंवन्धमन्य-देशादुपागतम्" इति । मार्कण्डेयोऽपि,
"न मित्रमतिथिं कुर्यात्रैक-ग्राम-निवासिनम् । अज्ञात-कुल-नामानं तत्काले समुपस्थितम् ।। वुभुत्तुमागतं श्रान्नं याचमानमकिञ्चनम् ।
* सदागच्छतीति,-इति मु पुस्तके पाठः । + समुपस्थितम्-इति मु• पुस्तके राठः ।
For Private And Personal