________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
३५०
परापारमाधवः ।
१५०या०का ।
एवं सत्यरि-मित्र-विवको यथा क्रियते, तथैवानियावापि तत् प्रमको तन्निराकरणाच, 'दृष्टो वा यदि वा देव्यः'-दूत्युकम् । मुर्खस्य भोजनीयत्वं स्मृत्यन्तरे निषिद्धम ;
"नटशौचे व्रतभ्रष्टे विप्रे वेद-विवर्जिते ।
दीयमानं रुदत्यन्नं किं मया दुष्कृतं कृतम्" इति । पण्डितम्य भोजनीयत्वं मनना दर्शितम्,
"श्रोत्रियायैव दयानि हव्यकव्यानि दालभिः ।
अत्तिमाय विप्राय तस्मै दनं महाफलम्" इति। एवं मति, श्राद्धादाविव वैश्वदेवान्तेऽपि पण्डित-मूर्ख-विवेक प्रसको तन्निराकरणायो, मूर्खः पण्डित एववा, इति। वैश्वदेवान्तशब्देन देवयज्ञ-भूतयज्ञादीनामुपरि घटिका-पादमात्र-परिमितः कालो विवक्षितः। तथा च मार्कण्डेयपुराण-वचनमुदाहृतम् ; 'मुहतस्याटमं भागम्'-दति । अतएव, तस्मिन् काले समागमनमेवातिथि-लक्षणं, नेतरविद्यादि । संक्रम्यतेऽनेनेति संक्रमः, स्वर्गस्य संक्रमः खर्ग संक्रमः, वर्ग-प्राप्ति-हेतुरिति यावत् । तथाचाश्वमेधिके,
"क्षतपिपासाश्रमातीय देशकालागताय च ।
सत्तत्यानं प्रदातव्यं यज्ञस्य फलमिच्छति'*-इति ॥ तमेवातिथिं विशिनष्टि,
दूराध्वोपगतं श्रान्तं वैश्वदेव उपस्थितम् । अतिथिं तं विजानीयान्नातिथिः पूर्वमागतः ॥४१॥
* दुराचोपगतं,--इति शा. पुस्तके पाठः । + पत्र, फलमिच्छता,-इति पाठी भवितुं यक्तः ।
For Private And Personal