________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
३४६
[१८०, आ०का० ।
युगपत् प्राधान्यं गुणत्वं च विरुयेयाताम् । तस्त्वन्न
सति, एकस्यैव संस्कारव, मा भूत् पुरुषार्थत्वमिति चेत् । तन्न, "महायज्ञेश्च यज्ञेश्च ब्राह्मीयं क्रियते तनुः " - इति मनुना पुरुषार्थत्व- स्मरणात् । यत्तु -- " सिद्धस्य हविष्यस्य जुहुयात्" — इत्युदाहृतं, तदन्यथाप्युपपद्यते । तच, जुहुयादित्युत्पत्तिविधिः । सिद्धस्य हविष्यस्येति विनियोगविधिः । तानेतानहरहः कुर्व्वीतेत्यधिकारः । किञ्च श्रन्न संस्कार- पक्षे प्रतिपाकमावृत्तिः प्रसज्येत, " प्रतिप्रधानं गुणावृत्तिः " - इति न्यायात् । तस्मात्, पुरुषार्थत्वमेवन्याय्यम् । अतएव ग्टह्मपरिशिष्टेऽभिचितम् -
>
पराशरमाधवः ।
Acharya Shri Kailashsagarsuri Gyanmandir
“प्रोषितोऽप्यात्म-संस्कारं कुर्य्यादेवाविचारयन्” – इति ।
-
गोभिलोऽपि – “यद्येकस्मिन् काले व्रीहि-यवौ पच्येयातां ; अन्यतरस्य हुत्वा कृतं मन्येत, यद्येकस्मिन् काले पुनः पुनरनं पच्येत ;
देव वलिं कुर्वीत, यद्येकस्मिन् काले बजधाऽन्नं पच्यते ; गृहपतिमहानसादेवैतं वल्डिं कुर्वीत " - इति । श्रयमर्थः । नानाद्रव्यकान्नपाके पुनः पुनरन्नपाकेऽपि बहूनामविभक्तानां भ्रात्रादीनां पृथक पृथक् पाकेऽपि, एकस्मादेव द्रव्यात् सहदेव गृहपति पाकादेव हातव्यमिति । ॥ ० ॥ इति वैश्वदेवप्रकरणम् ॥ ० ॥
अथातिथ्यापरनामकेा मनुष्ययज्ञोनिरूप्यते ।
श्रातिथ्यस्य मनुव्ययज्ञत्वं कात्यायनेनेाक्रम्,—
5g
" श्रध्यापनं ब्रह्मयज्ञः पियज्ञस्तु तर्पणम् । होम|देवो वलिर्भूता नृयज्ञोऽतिथिपूजनम्" - इति ।
For Private And Personal
-