________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१ब,या का०]
पराशरमाधवः ।
देवकृतस्यैनम इत्याद्याः शाकलमन्त्राः । विष्णरपि,
"अन्नं व्याहृतिभिर्डत्वा हुवा मन्तैश्च शाकलैः ।
प्रजापतेईविडत्वा पूजयेदतिथिं ततः" इति । भृतयज्ञः कूर्मपुराणे दर्शितः,
"देवेभ्यस्तु हुतादनाच्छषामृत-वलिं हरेत् ।
भूतयज्ञः मवै प्रोको भूतिदः सर्चदेहिनाम्" इति । हारीतोऽपि,-"वास्तुपाल-भूतेभ्यो वलिहरणं भूतयज्ञः” इति । कात्यायनोऽपि,
"उद्धृत्य हविषाऽऽषिय हविष्येण घृतादिना ।
स्व-शाखा-विधिना हवा तच्छेषेण वलिं हरेत्" इति । गौण-कर्चनाहात्रिः,
"पुत्रोधाताऽथवा ऋत्विक् शिष्यः श्वर-मातुलाः ।
पत्नी-श्रीचिय-याज्याश्च दृष्टास्तु वलिकर्मणि" इति । रहे कञन्तराभावे प्रवसता स्वयमेव कर्त्तव्यमित्याह बौधायनः,
"प्रवास गच्छतोयस्य ग्टहे का न विद्यते ।
पञ्चानां महतामेषां स यजैः सह गच्छति"-दूति । वलि-हरण-प्रकारमाह शौनकः,-"अथ वलिहरणमताभ्यश्चैव देवताभ्योऽय ओषधिवनस्पतिभ्यो ग्रहाय ग्रहदेवताभ्यो वास्तुदेवताभ्य इन्द्रायेन्द्रपुरुषेभ्योयमाय यमपुरुषेभ्यो वरुणाय वरुणपुरुषेभ्यः सोमाय सोमपुरुषेभ्यः, इति प्रतिदिशं, ब्रह्मणे ब्रह्मपुरुषेभ्यः, इति मध्ये, विश्वेभ्यो देवेभ्यः सर्वेभ्योभूतेभ्यो दिवागरिभ्यः, इति दिवा, ननं चारिभ्यः, इति ननं, रक्षोभ्यः, इति उत्तरतः, स्वधा पिढभ्यः,
For Private And Personal