________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
परापारमाधवः ।
था.का.
"जयात मर्पिषाऽभ्यक तेल-क्षार-विवर्जितम् ।
दध्यकं पयसा तं वा तदभावेऽम्बुनाऽपि वा"-दूति ॥ द्रव्यानुकन्पश्चतुर्विंशतिमते दर्शितः, -
"अलाभे येन केनापि फलशाकोदकादिभिः । पयोदधिघृतैः कुर्याद्वैश्वदेवं स्रवेण तु ।
हस्तेनानादिभिः कुर्यादभिरचलिना जले" - इति । यदद्यते तेनैव होतव्यम् । तदुक्तं ग्टह्यपरिशिष्टे,
"माकं वा यदि वा पत्रं मूलं वा यदि वा फलम्।
सङ्कल्पयेद्यदाहारस्तेनैव जुहुयादपि”- इति । क्षार-लवण-परान्न-मंसृष्टेन हविष्येन* हामोऽमा न कार्य:, किन्तषणं भस्माग्न्यायतनानुत्तरतोऽपाह्य तस्मिन् हातव्यम् । तदाहापस्तम्बः,“न क्षार-लवण-होमाविद्यते, तथा परान्न-संसृष्टस्य इविष्यस्या होमः, उदीचीनमुष्णं भस्मापोह्य तम्मिन् जुहुयानद्धृतमहुतं चानो भवति" इति । परिशिष्टेऽपि,
"उत्तानेन तु हस्तेन ह्यङ्गुष्ठाग्रेण पीड़ितम्।
संहताङ्गुलिपाणिस्तु वाग्य तो जुहुयाद्धविः" इति । अननिकस्य वैश्वदेवे विशेषमाह वृद्धवशिष्टः,
"अननिकस्तु योविप्रः सेाऽन्नं व्याहृतिभिः खयम् । हुवा शाकल-मन्तश्च शिष्टं काक-वलिं हरेत्" इति ।
* संसृछेनाहविष्येण,- इति स० सो० शा० पुस्तकेषु पाठः । + संसृयस्याहविष्यस्य,-इति स० सो० शा० पुस्तकेषु पाठः ।
For Private And Personal