________________
Shri Mahavir Jain Aradhana Kendra
१का०, प्र०का० । ]
www.kobatirth.org
-
पराशर माधवः ।
*
एतानि वारयन् विप्रो वध्यते वै मुहुर्मुहः । एतासां पावनार्थाय पञ्च यज्ञाः प्रकीर्त्तिताः" इति । सुना हिंसा - स्थानानि । कण्ड़नी मुषलोलूखलादिः । पेषणी दृशदुपलादिः । चुली पाक -स्थानम् । जलकुम्भः उदकस्थानम् । उपस्करः शूर्पादिः । श्रवस्कर:, इति पाठे, मार्जन्यादिर्द्रष्टयः । एताः सुनाः स्वस्वकार्थं प्रापयन् पापेन युज्यते, - इत्यर्थः । तच्च काल- येऽपि कर्त्तव्यमित्याह कात्यायनः, -
" सायं प्रातर्वैश्वदेवः कर्त्तव्योवलिकर्म च ।
Acharya Shri Kailashsagarsuri Gyanmandir
अनमताऽपि सततमन्यथा किल्विषी भवेत् " - इति । होम - प्रकार माहाश्वलायन:, - “अथ मायं प्रातः सिद्धस्य हविष्यस्य जुहुयादग्निहोत्र - देवताभ्यः सेामाय वनस्पतये श्रग्नीषोमाभ्यामिन्द्रानिभ्यां द्यावापृथिवीभ्यां धन्वन्तरये इन्द्राय विश्वेभ्यो देवेभ्यो ब्रह्मणे स्वाहा”— इति । इविष्यस्येति हवियोग्य स्येत्यर्थः । श्रग्निहोत्र - देवताभ्यः सूर्य्याद्मप्रजापतिभ्य इत्यर्थः । श्रापस्तम्बोऽपि "औपासने पचने वा षङ्गिराद्यैः प्रतिमन्त्रं हस्तेन जुहुयादुभयतः परिषेचनं यथा पुरस्तात्" इति । श्राद्यैरनुवाकादावुतैरग्नये स्वाहा इत्यादिभिः स्विष्टकृदन्तैः । उभयतः कमीदावन्ते चेत्यर्थः । कात्यायनेोऽपि -- “वैश्वदेवादन्वात्पर्युच्य स्वाहाकारैर्जुहुयात् ; ब्रह्मणे प्रजापतये ग्गृह्येभ्यः" काश्यपायानुमतये " - इति । श्रत्र यथास्वशाखं व्यवस्था । हातव्यान - संस्कार माह, व्यासः, -
३३६
गृहेभ्यः, इति मु० पस्तके पाठः ।
For Private And Personal