________________
Shri Mahavir Jain Aradhana Kendra
३१४
याज्ञवल्क्योऽपि -
www.kobatirth.org
पराशर माधवः ।
Acharya Shri Kailashsagarsuri Gyanmandir
[१०, काका० ।
" वेदाधपुराणानि सेतिहामानि शक्तितः ।
जपयज्ञ - प्रसिद्यर्थं विद्यामाध्यात्मिकीं जपेत्” इति । ग्रहणणध्ययनवत् ब्रह्मयज्ञाध्ययनस्थानध्याय-दिनेषु परित्याग - प्राप्तौ
मनुराह,—
For Private And Personal
"वेदोपकरणे चैव स्वाध्याये चैव नैत्यिके । नानुरोधोऽस्त्यनध्याये होम - मन्त्रेषु चैव हि ॥ नैत्यिके नास्त्यनध्यायो ब्रह्म-मत्रं हि तत् स्मृतम् । ब्रह्माजति जतं पुण्य-मनध्याय - वषट्कृतम्” - इति । ब्रह्मवैवाजति द्रव्यन्तेन हुतम् । श्रधीयते - इत्यद्यध्यायो याज्यादिमन्त्र - समूह:, तेन * वषट्कारेण च महितं जतम् । यतोनास्त्यनध्यायः, अतएव श्रुतिरनध्याय - विशेषाननूच तेषु जपं प्रशशंस - " यएवं विद्वामेघे वर्षति विद्योतमाने स्तनयत्यवस्फूर्ज्जति पवमाने वायावमावास्यायां स्वाध्यायमधीते तपएव तत् तप्यते तपोहि स्वाध्यायः " - इति ।
"
तेष्वनध्यायेष्वल्पमेव पठनीयम् । तदाच्चापस्तम्बः - " अथ यदि वातोवायात् स्तनयेद्वा विद्योतते वा तथाऽवस्फूर्जेदे काम्टतमेकं वा यजुरेकं वा सामाभिव्याहरेत् " - इति । श्रात्म- देशयेोरशुचित्वे ब्रह्मयज्ञोवर्द्धनीयः । तथाच श्रुतिः - " तस्य वा एतस्य यज्ञस्य दावनध्यायौ पदात्माऽश्ऽचिर्यद्देश : " - इति । ब्रह्मयज्ञं प्रशंमति श्रुतिः, -" उत्तमं नाकमधिरोहति उत्तमः समानानां भवति यावन्तं ह वामां वित्तस्य पूर्णां ददत् स्वर्ग - लोकं जयति तावन्तं लोकं जयति * तेन ज्हतेन, - इति शा० स० पुस्तकयेाः पाठः ।