________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१अ.या०,का.
परापारमाधवः ।
व्यवहार-चित्रकर्म-नृत्य-गीत-वेणु-वीण-मृदङ्ग-वादनानि" इति । अथ चतुर्थ भागे कर्त्तव्यमुच्यते । तत्र दक्षः,
"चतुर्थे तु तथा भागे स्नानार्थं मृदमाहरेत्" इति । मध्याहू-स्नान-विधिस्तु प्रसङ्गात् पूर्वमेव निरूपितः ।
अथ ब्रह्मयन्न-विधिः ।
तस्य स्वरूपं तैत्तिरीय-ब्राह्मणे दर्शितम्,–“यत् स्वाध्यायमधीथीतकामप्यूचं यजुः साम वा तत् ब्रह्मयज्ञः मन्तिष्ठते"-दति । लिङ्गपुराणेऽपि,
"स्व-शाखाऽध्ययनं विन ब्रह्मयज्ञ इति स्मृतः" इति । तस्य कालमाह बृहस्पतिः,
“स चावाक् तर्पणात् कार्य: पश्चादा प्रातराहुतेः ।
वैश्वदेवावसाने वा नान्यदा तु निमित्ततः'-दति । अत्र, वैश्वदेव-शब्देन मनुष्ययज्ञान्तं कर्म विवक्ष्यते ।यतः कूर्मपुराणेऽभिहितम्,
"यदि स्थातर्पणादाक् ब्रह्मयज्ञः कृतोन हि।
कृत्वा मनुष्य-यजन्तु ततः स्वाध्यायमाचरेत्" इति । अतिश्च दिग्देश-कालानाह,-"ब्रह्मयज्ञेन यक्ष्यमाण: प्राच्या दिशि ग्रामादच्छदिर्दर्श उदीच्यां प्रागुदीच्यां वोदितत्रादित्ये"इति । अच्छदिर्दर्श इत्यनेन शब्देन देश-विशेषोलक्षितः । छदिहाच्छादनं तृण-कटादि, यत्र न दृश्यते तत्रेत्यर्थः । उदिते श्रादित्ये,
For Private And Personal