________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१५०,घा०,का।
पराशरमाधवः ।
"प्रधानं क्षत्रिये कर्म प्रजानां परिपालनम् ।
कुसीद-कृषि-वाणिज्यं पाएपाल्यं विशः स्मतम्" इति । उपायान्तराण्याइ मनुः,
"मप्त वित्तागमाधादायोलाभः क्रयोजयः ।
प्रयोगः कर्मयोगश्च मत्-प्रतिग्रह एवच"-इति। दायोऽन्वयागतं धनं, लाभोनिधि-दर्शनम्। दाय-लाभ-क्रयान्वयागताश्चतुणी, जयः क्षत्रियस्यैव । प्रयोगो वृद्ध्यार्थं धन-प्रदानम्, कर्मयोगः कृषि-वाणिज्यम् । प्रयोग-कर्मयोगौ वैश्यस्यैव । सत्प्रतियही विप्रस्यैव। कूर्मपुराणेऽपि,
"द्विविधस्तु रही ज्ञेयः माधकश्चाप्यसाधकः । अध्यापनं याजनञ्च पूर्वस्याहुः प्रतिग्रहम् । शिलाञ्छनाप्युपादद्याद् ग्टहस्यः साधकः स्मृतः । असाधकस्तु यः प्रोक्ता ग्रहस्थाश्रम-संस्थितः ॥ शिलांच्छे तस्य कथिते वे वृत्ती परमर्षिभिः । अमृतेनापि जीवेत मृतेन प्रसतेन वा ॥
अयाचितं स्यादमृतं मृतं भैतन्तु याचितम्" इति । मनुरपि,
"तामृताभ्यां जीवेत मृतेन प्रमृतेन वा। सत्यान्ताभ्यामपिवा न श्व-वृत्त्या कथच्चन ।। ऋतमुञ्छशिलं ज्ञेयममृतं स्यादयाचितम् । मृतन्त याचितं प्रोकं प्रमृतं कर्षणं स्मृतम् । सत्यान्तन्तु वाणिज्यं तेन चैवापि जीव्यते ॥
For Private And Personal