________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पराशरमाधवः।
[१५०, था.का.
अपं होमञ्च कुर्वाणो नाभिवाद्यस्तथा द्विजः" इति । पाखण्डं पतितं प्रात्यं महापातकिनं शठम् । नास्तिकच कृतघ्नञ्च नाभिवाद्यात्। कथञ्चन ।। धावन्तञ्च प्रमत्तच्च मूत्रोच्चारकृतं तथा । भुञ्जानमातुरं नाई नाभिवाद्यात् द्विजोत्तमः ॥ वमन्त। जुम्भमाणञ्च कुव॑तं दन्त-धावनम् । अभ्या-शिरसञ्चैव स्नास्यन्तं माभिवादयेत् ॥ स्वक-पाणिकमविज्ञातमश रिपमातुरम् ।
योगिनञ्च तपः-मकं कनिष्ठं नाभिवादयेत्" । शातातपोऽपि,
"उदक्यां मृतिका नारी भर्तृनी गर्भ-घातिनीम् ।
अभिवाद्य विजोमोहात् त्रिरात्रेण तु शु यति"-दति । गुरोः पादोपसंग्रहणमित्युक्तं, तत्र कीदृशो गुरुरित्याशङ्काया माह मनुः,
"निषेकादीनि कर्माणि यः करोति यथाविधि ।
सम्भावयति चान्नेन स विप्रो गुरुरुच्यते" ॥ याज्ञवल्क्योऽपि,
* 'इति' शब्दोऽत्राधिक इति प्रतिभाति, किन्तु सर्वेष्वेव पुस्तकेषु दृष्टवाइक्षितः। । नाभिवादेत्, इति शा० पुस्तके पाठः। एवं परत्र । । उन्मत्तं,-इति शा• पुस्तके पाठः । ६ अहोरात्रेण शुध्यति,-इति मु. पुके पाठः ।
For Private And Personal