________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
२६०
पराशरमाधवः।
[१च्याच्या का।
नाभिवाद्यः स विदुषा यथा शूद्रस्तथैव मः" इति । यस्तु जाननपि न प्रत्यभिवादनं करोति, तस्यदोषो भविष्यत्युराणे दर्शितः,
"अभिवादे कृते यस्तु न करोत्यभिवादनम् ।
आशिषं वा कुरुश्रेष्ठ स याति नरकान् बहन्" इति । यमोऽपि,
"अभिवादे तु यः पूर्वमाशिषं न प्रयच्छति । यदुष्कृतं भवेदस्य तस्माद्भागं प्रपद्यते ॥ तस्मात् पूर्वाभिभाषी* स्याचण्डालस्यापि धर्मवित् । सुरां पिवेति वक्रव्यमेवं धर्मान हीयते ॥ स्वस्तीति ब्राह्मणे ब्रूयादायुमानिति राजनि। .
धनवानिति वैश्ये तु हने वारोग्यमेवा” इति ॥ मनुरपि,
"ब्राह्मणं कुशलं पृच्छत् क्षत्रवन्धुमनामयम् । वैश्यं क्षेमं समागम्य हदमारोग्यमेवच ॥ पर-पत्नी तु या स्त्री स्थादसम्बधा च यो नितः ।
तां ब्रूयाद्भवतीत्येवं सुभगे भगिनीति चौ"-दति ॥ ज्यायांसमभिवादयेदित्युक्तं, तत्र कियता कालेन ज्यायस्त्वमित्यपेक्षिते
* पूर्वाभिवादी,-इति शा• पुस्तके पाठः ।
+ स्वस्तीति ब्राह्मणं ब्र यादायुष्मानिति भूमिपः। वईतामिति वैश्यस्त शूदन्तु स्वागतं वद,-इति म० पुस्तके पाठः ।
भगिनीति वा, इति शा० पुस्तके पाठः ।
For Private And Personal