________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
२६६
परापारमाधवः।
[१अ०,आ०,का
मृगोमयं* स्वस्तिकमक्षतांश्च तैली मधु ब्राह्मण-कन्यकाञ्च। शेतानि पुष्पानि तथा शमी च हुताशनं चन्दनमर्क-विम्बम् । अश्वत्थ वृक्षञ्च समालभेत
ततश्च कुर्यान्निज-जाति-धर्मम्,”-इति । भरद्वाजोऽपि,
“कण्डूय पृष्ठतोगान्तु कृत्वा चाश्वत्थ-वन्दनम् ।
उपगम्य गुरून् सर्वान् विप्रांश्चैवाभिवादयेत्” इति । ब्राह्मण-समवाये प्रथमं कस्याभिवादनमित्याकाङ्क्षायामाइ मनः,
"लौकिकं वैदिकं वाऽपि तथाऽऽध्यात्मिकमेव वा।
श्राददीत यतोज्ञानं तं पब्वमभिवादयेत्” इति । अभिवादन-काले खं नाम कीर्तयेदित्याह सएव,
"अभिवादात् परं विप्रोज्यायांसमभिवादयन् । असौनामाऽहमस्मोति खं नाम परिकीर्तयेत् । भोशब्द कीर्तयेदन्ते स्व-ख-नाम्नाऽभिवादनम्?" इति ।
* यद्दोमयं,-इति शा० पुस्तके पाठः । + विनं,-इति शा० पुस्तके पाठः । + एष्ठगां गान्तु,-इति मु० पुस्तके पाठः ।
खखनाम्नोऽभिवादयेत्, इति म० पुस्तके पाठः । खस्य नामोऽभिवादने,-इति महितमनुसंहितायां पाठः।
For Private And Personal