________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
११०या०,का
पराशरमाधव:
. २८९
आश्वलायनस्तु अनुकल्पान्तरमाह,-"पासवान्तं प्रातः"इति । हाम-कालः, इत्यनुवर्तते । अथवा, सर्वएवेते काल-विशेषा यथाशाखं मुख्यतयैव व्यवतिष्टन्ते उदितानुदित-हामवत् । यदा तु कथञ्चिनाख्यकालातिक्रमः, तदा' गोभिलेोतं द्रष्टव्यम् ;- "अथ यदि ग्टह्येनौ सायंप्रात:मयोदर्शपौर्णमासयोा हव्यं होतारं वा नाधिगच्छेत् कथं कुर्यादिति, आ मायमाहुतेः प्रातराहुतिन्नीत्येत्याप्रातराहुतेः सायमाहुतिराऽमावास्यायाः पौर्णमासी नात्येत्यापौर्णमास्यमावास्या" इति । बौधायनोऽपि,
"श्रा सायंकर्मण: प्रातराप्रातः माय-कर्मणः ।
आहुतिनातिपद्येत पाळणं पार्चणान्तरात्” इति। अापनस्तु पक्ष-हामं कुर्यात्। तथाच मरीचिः,
"शरीरापद्भवेद् यत्र भयादाऽऽर्तिः प्रजायते ।
तथाऽन्यास्वपि चापत्म पक्ष-होमाविधीयते"-इति । पक्षहोमिनः तत्-पक्ष-मध्ये श्रापन्निरत्तौ तदा प्रभृति पुनहामः कर्त्तव्यः । तदाह मरीचिः,
“पक्षहामानथो कृत्वा गत्वा तम्मात् निवर्जितः ।
हामं पुन: प्रकुर्य्यानु नचासौ दोषभाग्भवेत्” इति । एवं होमानुष्ठितावपि सीमोल्लङ्घने कृते पुनराधानं कर्त्तव्यम् । तदाह कात्यायनः,
"विहायाग्निं सभार्यश्चेत् मीमामुनय गच्छति ।
* यथाकथञ्चिन्मुख्यकालातिकमः तथा,-इति मु० पुस्तके पाठः ।
37.
For Private And Personal