________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
२००
पराशरमाधवः।
चि०,श्रा का।
होमकालः कात्यायनेन दर्शितः,
"यावत् सम्यक् विभाव्यन्ते नभम्वृक्षाणि सर्वतः ।
लोहितत्वञ्च नापैति तावत् मायन्नु हयते"-दति । आपस्तम्बोऽपि,-"ममुद्रोवा एष यदहोरात्र:, तस्यैते गाधतीर्थ यसन्धी, तम्मात् सन्धौ होतव्यम्-इति कात्यायन-ब्राह्मणं भवति, नक्षत्रं दृष्ट्वा प्रदोषे निशायां वा मायम्”-दति । समुद्रत्वेन निरूपितस्याहोरात्रस्य सन्धिद्वयों सुप्रवेशं तीर्थ, तस्मात् सन्धिहामकालः, इति मुख्यः कल्पः। नक्षत्र-दर्शनादयस्त्रयः काला: मायं होमेऽनुकल्पाः । एकनक्षत्रोदयो नक्षत्रदर्शनं, सर्वनक्षत्रोदयः प्रदोषः, निद्रावेला निशा। प्रात:मकालोऽपि चतुर्विधस्तेनैवदर्शितः,-"उषस्थुषोदयं समयाधुषिते प्रातः" इति। मनुस्तु प्रथम-द्वितीयावेकी कृत्य काल-यमाह,
"उदितेऽनुदिते चैव समयाध्युषिते तथा ।
सर्वथा वर्त्तते यज्ञ दतीयं वैदिकी श्रुतिः” इति । एतेषां लक्षणमाह व्यासः,
"रात्रे: षोड़शमे भागे ग्रह-नक्षत्र-भूषिते । कालं त्वनुदितं प्राहु ईमिं कुर्याद्विचक्षणः ॥ तथा प्रभात-समये नष्टे नक्षत्र-मण्डले । रविर्यावन्न-दृश्येत समयाधुषितस्तु मः ॥ रेखामात्रस्तु दृश्येत रश्मिभिस्तु समन्चितः ।
उदितं तं विजानीयात् तत्र होम प्रकल्पयेत्" इति । * सन्धित्रयं,-इति मु० पुस्तके पाठः । + कालेवन दिते प्रातः, इति म० पुस्तके पाठः ।
For Private And Personal