________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
२८8
पराशरमाधवः ।
[१०,०का।
वानप्रस्थायतिश्चैव महसादधिकं जपेत्”-इति । स्मत्यन्तरे,
"दर्श श्राद्धे प्रदोषे च गायत्री दश-संख्यया ।
अष्टाविंशत्यनध्याये सुदिने तु यथाक्रमम्" इति । यमोऽपि,
"सहस्र-परमां देवीं शत-मध्यां दशावराम् । गायत्रीन्तु जपेन्नित्यं सर्व-पाप-प्रणाशनीम्" इति। आपस्तम्बोऽपि,-"दर्भेष्वासीनो दर्भान् धारयमाण: मोदकेन पाणिना प्रामुखः सावित्री सहस्रकृत्व श्रावन्येच्छतकृत्वोऽपरिमितकृत्वावा"-इति ।
॥०॥ इति जप-विधिः ॥०॥ जपाङ्गतामक्षमालामाह । हारीतः,
"शङ्ख-रूप्यमयी माला काञ्चनीभिरथोत्पलैः । पद्माक्षकैश्च रुद्राक्षे विद्रुमैर्मणि-मौक्तिकैः ॥ नथाचेंद्राक्षकाला तथैवाङ्गलि-पर्वभिः ।
पुत्रजीवमयी माला शस्ता वै जप-कर्मणि" इति । गौतमोऽपि,
"अङ्गल्या जप-संख्यानमेकमेकमुदाहृतम् ।
रेखायाऽष्टगुणं पुचजीवैर्दशगुणाधिकम् । * समयन्तरे, --इत्यादिः, इति,-इत्यन्तोग्रयो नास्ति मुद्रितातिरिक्त
पुस्तकेषु । +जपाङ्गभूतां मालामाह,-इति मु० पुस्तके पाठः । 1 यमाक्षकैश्च, इति स• शा० पुस्तकयोः पाठः ।
For Private And Personal