________________
Shri Mahavir Jain Aradhana Kendra
२७६
www.kobatirth.org
पराशर माधवः ।
एव सन्ध्यात्रयं कर्त्तव्यमित्यादात्रि:, -
www.daily
Acharya Shri Kailashsagarsuri Gyanmandir
"तं गन्ध दिवामैथुनमेवच ।
पुनाति वृषलस्यानं सन्ध्या वहिरुपासिता " इति ॥ वहि: मन्ध्यायामुपामितायां यदा विहरणाद्यङ्ग लोपस्तदा गृह
[१ का०, या०, का• ।
“सन्ध्यात्रयन्तु कर्त्तव्यं द्विजेनात्मविदा मदा |
उभे सन्ध्ये तु कर्त्तव्ये ब्राह्मणैश्च गृहेष्वपि " - दूति ।
यद्यपि, प्रशस्तत्वादहिरेव सन्ध्यात्रयं कर्त्तव्यत्वेन प्राप्तं, तथापि श्रौतत्वेन विहरणस्य प्रावल्यात् तदनुरोधेन मायं प्रातः-समध्ये ग्टहेऽभ्यनुज्ञायेते । सायं सन्ध्यायामुपयाने मन्त्र - विशेषमाच नारायणः - "वारुणीभिस्तथादित्यमुपस्थाय प्रदक्षिणम् ।
कर्व्वन् दिशोनमस्कुर्य्याद्दीगीशांश्च पृथक पृथक्" इति । वारुण्यश्च - 'इमं मेवरुण' - इत्याद्याः । यद्यपि, वारुणीभि वरुणस्योपस्थानं लिङ्गबलात् प्राप्तं, तथापि श्रुतेः प्राबल्यात् तथा लिङ्गं वाधिला आदित्योपस्थाने एव विनियुज्यन्ते । एतच्च तृतीयाध्याये विचारितम (१) ।
तथा हि, "ऐन्द्रा गार्हपत्यमुपतिष्ठेत " - इति श्रूयते । इन्द्रो देवतात्वेन यस्यास्मृति मन्त्रलिङ्गात् प्रकाश्यते, मेयन्मृगेन्द्री; 'कदाचन स्तरीरमिनेन्द्र सञ्चमि - इत्यादिका । तत्र, लिङ्गादिन्द्रोपम्याने मन्त्रस्य विनियोगः प्रतीयते, 'गाईपत्यम्' - इति द्वितीयाश्रुत्वा तु गाई - पत्योपस्थाने । तत्र संशयः, किमुभयं समुचित्योपस्थेयं, उनकएव ।
For Private And Personal
(१) पूर्व्वमीमांसायाः, – इति शेषः । एतच्च तत्र तृतीय-तृतीय- सप्तममधि
करणम् ।