________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
२७२
पराशरमाधवः।
[ १०,या का ।
अर्द्धचीन्तेऽथवा कु-च्छिष्टानां मतमीदृशम्" इति । हारीतोऽपि,-"मार्जनार्चन-वलिकर्म-भेजनानि दैव-तीर्थन कुर्यात्"। तच मार्जनं न धारा-च्युतौ कार्य्यम् । तथा ब्रह्मा, -
"धाराच्युतेन तोयेन सन्ध्योपास्ति विगहिता ।
पितरो न प्रशंसन्ति न प्रशंसन्ति देवताः" इति ॥ कथं तर्हि मार्जनमिति, तत्राह स एव,
"नद्या तीर्थे तटे वाऽपि भाजने मृण्मयेऽपिवा । श्रादुम्बरेऽथ सौवर्णे राजते दारु-सम्भवे ।
कृत्वा तु वाम-हस्ते वा सन्ध्योपास्तिं समाचरेत्" इति । कृत्वा उदकमिति शेषः । मृण्मयादि पात्र-सद्भावे तु वामहस्तस्य प्रतिषेधः ।
“वामहस्ते जलं कृत्वा ये तु सन्ध्यामुपासते।
मा सन्ध्या वृषली जेया असुरास्तेषु तर्पिताः”। इति स्मरणात् । मृण्मयाद्यभावे तु, 'कृत्वा तु वामहस्ते वा'इत्यनेनैव विधानात् । एवमुक्तविधिना माजयित्वा सूर्यश्चेत्यपः पिवेत्। तदाह बौधायनः,-"अथातः सन्धयापासन-विधिं व्याख्यास्यामः, तीर्थं गत्वा प्रयतोऽभिषिक्तः प्रचालित-पाणि-पादो विधिनाऽऽचम्यामिश्च मा मन्युश्चेति मायमपः पीला मर्यश्च मामन्यश्चेति
* तथाच,-इति स० शा० पुस्तकयोः पाठः ।
सन्ध्यां,-इति मु० पुस्तके पाठः । + वामहस्तः प्रतिषिद्धः, इति मु० पुस्तके पाठः ।
अमरास्तेस्तु, इति मु• पुस्तके पाठः ।
For Private And Personal