________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१अ.,या०,का।]
पराशरमाधवः ।
२६६
"गायत्री तु भवेद्रका सावित्री लवर्मिका। सरस्वती तथा कृष्णा उपास्या वर्म-भेदतः ॥ गायत्री ब्रह्मरूपा तु सावित्री रुद्ररूपिणी ।
सरखती विष्णुरूपा उपास्था रूप-भेदतः""-इति । उपासनमभिध्यानम् । अतएव तैत्तिरीय ब्राह्मणम्,-"उद्यन्तमस्त यन्तमादित्यमभिध्यायन् कुर्वन् ब्राह्मणो विद्वान् सकलं भद्रमनुते ऽसावादित्यो ब्रह्मेति ब्रह्मव सन् ब्रह्माप्येति यएवं वेद" इति । श्रयमर्थः, वक्ष्यमाण-प्रकारेण प्राणायामादिकं कर्म कुर्वन् यथोक्तनाम-रूपोपेती सन्ध्या-शब्द-वाच्यमादित्यं ब्रह्मेति ध्यायनैहिकमामुभिकञ्च सकलं भद्रमनुते । यएवमुक्त-ध्यानेन शुद्धान्तःकरणो ब्रह्म साक्षात् कुरुते, स पूर्वमपि ब्रह्मैव मन्त्रज्ञानाज्जीवत्वं प्राप्नोति यथोक्त-ज्ञानेन तदज्ञानापगमे ब्रह्मैव प्राप्नोति, इति । व्यासोऽपि एतदेवाभिप्रेत्याह,
"न भिन्नां प्रतिपद्येत गायत्रों ब्रह्मणा सह ।
सोऽहमस्मीत्युपासीत विधिना येन केन चित्" इति । तत्र, प्रातःसन्ध्यायाः काल-परिमाणमाह दक्षः,
"रायन्त-याम-नाड़ी द्वे सन्ध्यादिः काल उच्यते। दर्शनाद्रवि-रेखाया स्तदन्तो मुनिभिः स्मृतः” इति ।
* 'गायत्रीब्रह्मरूपातु,'–इत्यादिः 'रूपभेदतः' इत्यन्तोग्रन्थः मुद्रितातिरिक्तपुस्तकेषु नास्ति । + यथोक्तनामाभिध्येय रूपोपहितं, ---इति म० पुस्तके पाठः ।
For Private And Personal