________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
२६०
पराशरमाधवः।
१.या का।
यद्यगि काल-वाचकत्वेनात्र सन्ध्या-शब्दः प्रतीयते, तथापि तस्मिन् काले उपास्या देवता सन्ध्या-शब्देनोपलक्ष्यते । तथा देवतया उपलक्षणमुपलक्ष्य मूल-वचने कर्म-परत्वेन सन्ध्या-शब्दः प्रयुक्तः । अथवा,-सन्धौ भवा क्रिया सन्ध्या । अतएव व्यासः,
"उपास्ते सन्धि-वेलायां निशाया दिवस्य च ।
तामेव सन्ध्यां तस्मात् प्रवदन्ति मनीषिणः” इति। तां क्रियां विदधाति योगियाज्ञवल्क्यः,
“मन्धी सन्ध्यामुपासीत नास्तगे नाइते रवौ" इति । मा च सन्ध्या त्रिविधा । तदुक्रमत्रिणा,
__"सन्धया-त्रयन्त कर्त्तव्यं दिजेनात्मविदा सदा"-इति। तत्र, काल-भेदेन देवताया नामादि-भेदमाह ! व्यासः,
"गायत्री नाम पूर्वा सावित्री मध्यमे दिने । सरखती च मायाले मैव सन्धया विधाः स्मृता ।। प्रतिग्रहादत्रदोषात् पातकादुपपातकात् । गायत्री प्रोच्यते तस्मादायन्तं त्रायते यतः ॥ सवित-द्योतनात् मैव || सावित्री परिकीर्तिता ।
जगतः प्रसावित्री वा वायूपत्वात् सरखती" इति । वर्ण-भेदः स्मृत्यन्तरेऽभिषितः,
* तथा च देवताया उपलक्षणमुपलक्ष्य, इति शा० स० पुस्तकयोः पाठः। तस्मात्तत्,-इति शा० पुस्तके पाठः । नामभेदमाह,-इति म० पुस्तके पाठः। 5 विघु,-इति शा० सेपुस्तकयोः पाठः । || चैव-इति म० पस्तके पाठः।
For Private And Personal