________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पराशरमाधवः ।
ग्रा०का.
अब्रुवन् विब्रुवन् (१) वापि नरोभवति किल्विषी"। “माक्ष्येऽनृतं वदन् पाशैर्वध्यते वारुणैर्नरः । विवश: शतमाजातीस्तस्मात्* साक्षी वदेदृतम्"(२) । (२)राजादेः प्रत्यवायोऽस्तु व्यवहारे किमागतम् ? । व्यवहारोन राजादेरर्थि-प्रत्यर्थिनास्तु सः । प्रत्यर्थिनोऽर्थिनो वाऽत्र प्रत्यवायोन हि स्मृतः । पराजय-निमित्तेन प्रायश्चित्तं च न स्मृतम् ।
कृणाद्यैर्नरकोकिर्या साऽप्याचार-निवन्धना(५) । (५)अस्तु वा नरकः शास्त्र-विरुद्ध-व्यवहारिणः । पर-लोक-प्रधानत्वमेवास्माभिर्निवार्यते ।
* प्रतवर्धाणि, इति मु. पुस्तकयाठः । + साक्ष्यं वदेदृतं-इति मु. म. पाठः ।
(१) विब्रुवन् विरुद्धं ब्रुवन् ।। (२) जातिर्जन्म । तथाच विवशः सन् शतजन्मानि यावत् वाण्णः पारे
बध्यते इत्यन्वयः। ऋतं सत्यं । (३) आप्रवां परिहरति 'राजादेः'-- इति ।
आचारनिबन्धना लोकव्यवहारमूला। तथाच नरकोक्तिनिन्दामात्रमिति भावः। ननु “ऋणानाञ्चानपक्रिया" इति मनुना उपपातकमध्ये पाठात् प्रत्यवायएव गम्यते । अपिच चतुष्पादात्मकव्यवहारे निर्णयस्य राजाधनुछेयत्वात् तदन्यथाकरणे तेषां प्रत्यवायः स्यादेव । तथा चोभयथापि यवहारस्य परलोकप्रयोजनकत्वमक्षतमित्याशयवानाह अस्त वेति । परलोकेति, तथाचायमाचार्यः परलोकप्रधानमेव धर्ममुपदिदेपा, व्यवहारस्तु न तादृश इति न तदकथनात् न्यूनत्वशङ्केति भावः ।
For Private And Personal