SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ९ख०,मा.का. पराशरमाधवः । २४१ कात्यायनोऽपि, "यथाऽहनि तथा प्रातः नित्यं स्नायादनातुरः । दन्तान प्रक्षाल्य नद्यादौ ग्टहे चेत् तदमन्त्रवत्"- इति । प्रमन्त्रवदिति मन्त्र-संदेपोभिप्रेतः, यतः सएव श्राह, “अल्पत्वाद्धोम-कालस्य वहुत्वात् स्नान-कर्मणः । प्रात: मंक्षेपतः स्नानं होम-लोपो विगर्हितः” इति । काल-नियममाह जावालिः, “मततं प्रातरुत्थाय दन्त-धावन-पूर्वकम् । पाचरेदुषसि स्नानं तर्पयेद्देव-मानुषान्" इति । चतुर्विंशति-मतेऽपि, "उषस्युषसि यत् स्नानं सन्ध्यायामुदितेऽपिवा । प्राजापत्येन तत्तुल्यं मर्च-पाप-प्रणाशनम्" इति । उदिते इत्युदयाभिमुखे, इत्यर्थः । उदयम्याप्युपरि स्नानं चेत् सन्ध्याऽप्युल्कृष्येत, १)स्नान-पूर्वकत्वात् सन्ध्यायाः; सन्ध्योत्कर्षश्च योगियाज्ञवल्कोन : निषिद्धः, ___ “मन्ध्या सन्ध्यामुपासीत नास्तगे नोहते रवी"-इति । यथोकं स्नानं कुर्वत्रघमर्षण(२) कुर्यात्। तदाह शौनकः,* सायादतन्त्रितः, इति म पुस्तके पाठः । + प्रातर्न तनुयात् स्वानं,-इति अन्यत्र पाठः । + याज्ञवल्कान,-इति म पन्तके पाठः।। (१) विहितकालादुत्तरकाले करणमुत्कर्षः । (२) "ऋतच"-इत्यादि ऋक्वयं अघमर्षणतया प्रसिद्धम् । तच्च ऋग्वेदे दशममण्डले चात्मकं नवत्यधिकशततमं सूक्तम् । एतदेव सूक्तं नैत्तिरीयारण्यके दशमप्रपाठके प्रथमानुवाके पठितम । 31 For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy