SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org २०० [१ का०, या ० का ० व्याम:, - "ऋषीणामृषिता नित्यं प्रातःस्नानान्न संशयः । अलक्ष्मीः काल-कर्णी (१) दुःस्वप्नं दुर्विचिन्तनम्" | प्रातः स्नानेन पापानि पूयन्ते नात्र संशयः " - इति । दतोऽपि - पराशर माधवः । Acharya Shri Kailashsagarsuri Gyanmandir "अज्ञानाद्यदि वा मोहा द्रात्रौ दुश्चरितं कृतम् । प्रातः स्नानेन तत् सर्व्वं शोधयन्ति द्विजातयः " - इति । स्नान - प्रकारः चतुर्विंशात मते विहितः, - "स्नानमन्दैवतैर्मन्त्रै वारुणैश्च मृदा सह । कुर्य्याहृतिभिर्वाऽथ यत् किञ्चेदम्टचाऽपिवा । (९ ) - इति । * दुर्विचिन्तितम् इति मु० पुस्तके पाठः । + यत्किञ्चेदम्टचापि च, - इनि मु० पुस्तके पाठः । (१) अलमलमा अग्रजा । कालकर्णी चतुःषष्टियोगिन्यन्तर्गताऽष्टत्रिंशत्संख्यका योगिनी । (२) अव्दैवतमन्त्राः ऋग्वेदे दशममण्डले नवमनुक्ले नव पठिताः, तत्र प्रथमे त्रयोमन्त्रा कामिमारुते व्यपस्पर्श विनियुक्तया प्रसिद्धाः । तत्र, 'यापाठा' - इत्यादिः प्रथमेोमन्त्रः, 'यावः शिवतमोरस : ' - इत्यादिर्दितीयः, 'तस्मा अर' - इत्यादिस्तृतीयः । एतएव वाजसनेयसंहितायां एकादशाध्याये पठिताः । एवं सामवेदसंहितायामुत्तराग्रन्थे नवमप्रपाठकस्य द्वितीयार्द्ध तत्रयात्मकमेव दशमं सूक्तं पठितम् । वारुणमन्त्राच, 'तत्त्वायामि ब्रह्मणा वन्द्यमानः' - इति पञ्च, 'त्वं नोऽमे वरुणस्य विद्वान्' - इति हे, 'इमं मे बरुणश्रुधि' – इति चेयो ऋचः हेमाद्रिणा लिखिताः । तत्र तत्त्वायामीत्याद्याः पञ्च ऋचः, ऋग्वेदे प्रथममण्डले पञ्चदशचात्मके चतुव्विंपूतिसूक्ते एकादशाद्याः । ' त्वं नोऽमे वरुणास्य विद्वान्' - इति दे ऋचौ ऋगवेदे चतुर्थ मण्डले विंशतिऋगात्मक प्रथमसक्के चतुर्थीपञ्चम्यो । 'इमं मे वरुणधि' - इति च ऋग्वेदे प्रथममण्डले पञ्चविंशतिसूक्तस्योनविंशतितमी ऋक् । व्याहृतयेाभृराद्याः प्रसिद्धाः । ' यत्किञ्चेदं' - इति च ऋग्वेदे सप्तममण्डले एकोननवतितमे वक्त पञ्चमी ऋक् । 1 For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy