________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पराशरमाधवः ।
या०का ।
"कुश-मूले स्थितो ब्रह्मा कुश-मध्ये जनार्दनः ।।
कुशाग्रे शङ्करं विद्यात् त्रयो देवाव्यवस्थिताः” इति । कौशिकः,
"एचौ देशे शुचिर्भूत्वा स्थित्वा पूत्तरामुखः ।
ॐकारेणेव मन्त्रेण कुशाः स्पृश्याद्विजोत्तमैः” इति । उत्पाटन-मन्त्रस्तु,
"विरिश्चिना महोत्पन्न, परमेष्ठि-निसर्गजः ।
नुद पापानि सर्वाणि दर्भ, स्वस्तिकरो मम"-इति । वर्ण-भेदेन विनियोग-भेदमाह कात्यायनः,
"हरिता यज्ञिया दर्भाः पीतकाः पाकयज्ञिया:(१) ।
समलाः पिवदैवत्याः कल्माषा वैश्वदेविकाः” इति । कुशाभावे शङ्ख,
"कुशाभावे विजश्रेष्ठः काशः कुर्चीत यनतः ।
तर्पणादीनि कर्माणि काशाः कुश-समाः स्मृताः" इति । यमोऽपि,
* विन्द्यात्,-इति म. पुस्तके पाठः। + निसर्गतः, इति शा. पुस्तके पाठः । 1 विनियोगमाइ,-इति शा० पुस्तके पाठः। ६ तत्त्वतः, इति शा० स० पुस्तकयाः पाठः। (१) पाकयज्ञियाः पाकयज्ञे विनियोगाहाः। पाकयज्ञश्च,-"पाकयज्ञा इत्याचक्षत एकाग्नौ यज्ञान् ( 8.६.२)"-इति लायायनीये श्रौतसूत्रे परिभाषितः। “त्रयः पाकयज्ञाः, हुता यमौ हूयमाना अनमो प्रहुता ब्राह्मणमाजने ब्रह्मणि हुताः, (१.१.२-३)"-इति आश्वलायनीये एह्यसूत्रे उक्तम्। "पाकयज्ञाः अल्पयज्ञाः प्रशस्तयज्ञा वा"-इति तत्तौ गार्ग्यनारायणः । पाकयज्ञः पाकाङ्गकयज्ञो घोत्सर्गरटहप्रतिष्ठा होमादिः, इति रघुनन्दनः ।
For Private And Personal