________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१.या०का.]
पराशरमाधवः ।
२१३
"कण्ट कि-क्षीर-वृतोत्थं दादशाङ्गल-सम्मितम् । कनिष्ठाङ्गुलिवत् म्यूलं पार्द्ध-कृत-कूर्चकम् ।। दन्त-धावनमुद्दिष्टं जिहोल्लेखनिका* तथा। सुसूक्ष्म सूक्ष्म-दन्तस्य सम-दन्तस्य मध्यमम् ॥ स्थूलं विषम-दन्तस्य त्रिविधं दन्त-धावनम् । द्वादशाङ्गुलिकं विप्रे काष्ठमाहुमणीषिणः ॥
क्षत्र-विट-छद्र-जातीनां नव-षट्-चतुरङ्गुलम्" इति । अङ्गिराः,
"श्राम-पुत्राग-विल्वानामपामार्ग-शिरीषयोः । भक्षयेत् प्रातरुत्थाय वाग्यतो दन्त-धावनम् ॥ वटाश्वत्थार्क-खदिर-करवीरांश्च वर्जयेत्। जात्यच्च विल्व-खदिर-मूलन्तु ककुभस्य च ॥ अरिमेदं प्रियङ्गच्च कण्टकिन्यस्तथैव च । प्रक्षाल्य भक्षयेत् पूर्व प्रवाल्यैव च सत्यजेत् ॥ उदभुखः प्रामुखो वा कषायं तितकं तथा ।
प्रातर्भूत्वा च यतवाग्मक्षयेद्दन्त-धावनम्" इति । कात्यायनो दन्त-धावनस्य काष्ठाभिमन्त्रण-मन्त्रं दर्शयति,
"आयुर्वलं यशोवर्चः प्रजाः पशु-वसनि च । ब्रह्म प्रज्ञाञ्च मेधाञ्च त्वं नोधेहि वनस्पते"-इति।
* जिन्होलेखनिकां-इति मु° पुस्त के पाठः । + इति, शब्दोऽत्राधिको मु० पुस्तके ।
30
For Private And Personal