________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पराशरमाधवः।
आका० ।
कर्ण-युग्भे तथा स्पृष्ट प्रीयते त्वनिला नलौ। स्कन्धयो: स्पर्शनादेव प्रीयन्ते सर्वदेवताः। . नाभि-संस्पर्शनानागाः प्रीयन्ते चास्य नित्यशः । संस्पृष्टे हृदये चास्य प्रीयन्ते सर्चदेवताः ।
मूर्द्ध-संस्पर्शनादस्य प्रीतस्तु पुरुषोभवेत्”-दति। आचमनाकरणे प्रत्यवायो दर्शितः पुराणमारे, *
“यः क्रियाः कुरुते मोहादनाचम्दैव नास्तिकः । भवन्ति हि स्था तस्य क्रियाः सा न मंशयः" इति ।
॥ ॥ इति आचमन-प्रकरणम् ॥०॥
अथ दन्तधावन-विधिः ॥ अत्रात्रिः,
“मुखे पर्युषिते नित्यं भवत्यप्रयतानरः।
तदा -काठं शुष्कं वा भक्षयेद्दन्तधावनम्" इति । व्यासेाऽपि,
"प्रक्षाल्य हस्तौ पादौ च मुखञ्च सुसमाहितः । दक्षिणं वाहुमुसृत्य कृत्वा जान्वन्तरा ततः ॥ तिनं कषायं कटुकं सुगन्धों कण्डकान्वितम् ।
क्षीरिणोवृक्ष-गुल्मादीन् भक्षयेद्दन्तवावनम्" इति। विष्णुः,
* पुराणसारे,-इति नास्ति मु० पुस्तके । । सगन्ध, - इति मु० पुस्तके पाठः ।
For Private And Personal